This page has been fully proofread once and needs a second look.

३८४
 
काव्येमाला ।
 
यस्य तस्य सदायतेरर्थान्मम धने असौहृदममेलापं योजय । किंभूतः । तमोहरः अज्ञा-

नरूपान्धकारहर्ता । असौहृदं किंभूतम् । अक्षयशोभि अक्षयं अत एव शोभि शोनं
 

च तादृशम् ॥
 

भक्तजनानुद्दिश्य वक्ति-

 
सकलशं सकपालमलंकृतप्रमदमस्थिरसं मदनाशनम् ।

भवमदभ्रमहानिधने हितं शमनमज्जनमानमतालयम् ॥ ७९ ॥

 
सकलशंसकपालमलं कृतप्रमदमस्थिरसंमदनाशनम् ।

भवमदभ्रमहानिधनेहितं शमनमज्जनमानमतालयम् ॥ ७६ ॥ (युग्मम्)
 

 
अत्र सकलशं इति, सकपालं इति, अलंकृतप्रमदं इति, अस्थिरसं इति, मदनाशनम्

इति, भवं इति, अदभ्रमहानिधने इति, हितं इति, शमनमजनं इति, आनमत इति, अल-

यम् इति, सकलशंसकपालं इति, अलं इति, कृतप्रमदं इति, अस्थिरसंमदनाशनम् इति,

भवमदभ्रम हानिधनेहितं इति, शमनमज्जनमानमतालयम् इति पदच्छेदः । यूयं भवं श्री-

शंभुमानमत प्रणमत । किंभूतम् । सकलशं सह कलशेन सुधाकलशेन वर्तते यः स तादृशम् ।

तथा सकपालम् । तथा अलंकृता देहार्धदानेन प्रमदा पार्वती येन स तादृशम् । तथा अस्ि
<flag></flag>
अस्थिमालायां रसो यस्य स तादृशम् । तथा मदनमश्नातीति मदनाशनस्तादृशम् । तथा

अदभ्रं घनं यत् महत् अनिधनं अविनाशित्वं निजभक्तजनदेयं तत्र हितम् । तथा शमनम-

ज्जनं शमनं यमं मज्जयति अतितर्जनेन श्वेतनृपंपालनार्थम् । तथा अलयं निर्विनाशम् ॥

सकलेत्यादि । पुनः किंभूतम् । सकलशंसकपालं सकला ये शंसकाः स्तुतिकृतस्तान्पाल-

यति तादृशम् । तथा अलमत्यर्थे कृतः प्रमदः परमानन्दो येन स तादृशम् । तथा अ

स्थिर संमदनाशनं अस्थिरसंमदा अल्पसंतोषा ये जनास्तान्नाशयति यस्तादृशम् । तथा

भवे संसारे यो मदस्तेन यो भ्रमस्तस्य हानिः सैव धनं येषां ते संसारभ्रमविरक्तास्तैरीरो-

हितोऽभिलषितस्तम् । तथा शमेन उपशमेन नमन्तः सविनया ये जनास्तेषां मानार्थे म
थं म-
तोऽङ्गीकृत आलयः प्रतिदेहस्थितिरूपो येन स तादृशम् ॥ युग्मम् ॥
 

 
तनुशङ्करवैर्समायतयातनु शंकर वै रस मायतया ।
 

तनु शं करवै रसमायतयातनुशं कर वैरसमायतया ॥ ७७ ॥
 

 

 
अत्र तनुशङ्करवैः इति, असमायतया इतिंति, अतनु इति, शंकर इति, वै इति, रस

इति, मा इति, अयतया इति, तनु इति, शं इति, करवै इति, रसं इति, आयतया इति,

अतनुशं इति, कर इति, वैरसमायतया इति पदच्छेदः । वै प्रसिद्धौ । हे शंकर

कैवल्यप्रद, त्वं मा मां कर्मभूतं रस संभाव (ष) य । मां प्रति स्ववचोमृतं मुश्ञ्चेत्यर्थः ।

कैः । अतनु अनल्पं कृत्वा ये तनुशङ्का निःशङ्का रवा आश्रितजनं प्रति अभयदानवच
-
नानि तैरतनुशङ्करवैः । मा कीदृशम् । उपलक्षितम् । कया। असमायतया असमोऽनन्य-

सदृशोऽयः शुभावहो विधिर्यस्य सः असमायः तस्य भावस्तत्ता तया । किंभूतया । आ-

यतया अनियतया । तनुशमित्यादि । हे विभो, त्वं शं कैवल्यरूपं तनु विस्तारय । अहं
 
Digitized by Google