2023-10-24 14:14:44 by jayusudindra
This page has been fully proofread once and needs a second look.
शमितसंगमसज्जनतापदंशमितसङ्गमसज्जनतापदम् ।
स्तुतिकुसुमाञ्जलिः ।
३८३
नमतकाममहीनविभासितं नमत काममहीनविभासितम् ॥ ७२ ॥
हे कृतिनः, कामं निश्चये । यूयं नमत कामम् । अत्र नञ्समासः । न मतः न इष्टः
न मानितः कामो येन स तं नमतकामं श्रीशंभुं नमत प्रणमत । किंभूतम् । अहीनविभा
सितं अहीनैर्नागेन्द्रैर्वासुक्यादिभिर्विभासितं शोभितम् । तथा अहीना पूर्णा चासौ विभा
दीप्तिस्तया सितस्तादृशम् । पुनः किंभूतम् । (शमितसङ्गं शमितः सङ्गः कामक्रोधादिभिः
सह येन स तादृशम् । तथा) संगमे श्रीशिवैकतानानां सङ्गे सज्जास्तद्युक्ता ये नता भक्ति-
प्र
शस्तं शमितसंगमसज्जनतापदंशम् । पुनः किंभूतम् । असज्जनानां दुष्टाशयानां तापं
संतापं ददाति तादृशस्तम् । कथम् । इतसङ्गं निर्निरोधम् । क्रियाविशेषणमेतत् । इतः
सङ्गो यत्र तत् । तथा यद्वा शमिता संगमसज्जानां नतानां भक्तिप्रहाणामापद्विपद्येन
स तादृशम् ॥
पुनरपि भक्तजनमुपदिशति कविः-
कलितमोहनमारवराजितं स्मर हरं शिखिचन्द्रकलाञ्छितम् ।
कलितमोहनमारवराजितं
त्वं हरं श्रीशंभुं स्मर । किंभूतम् । कलिस्तुरीययुगं कलहो वा तमो मोहान्धका-
रश्च तद्धन्तीति तादृशं कलितमोहनम् । तथा आरवेण भक्तजनं प्रत्यभयदानशब्देन
राजितस्तम् । पुन किंभूतम् । शिखी अ
पुनः किंभूतम् । कलितमोहनमारवराजितं कलितं मोहनं रमणं येन स तादृशो मार-
वरः काममहावीरस्तेनाजितस्तम् । पुनः किंभूतम् । स्मरहरं स्मरं हरति निःशेषीक-
रोति तादृशम् । पुनः किंभूतम् । शिखिनां मयूराणां चन्द्रकैर्लाञ्छितः शोभितस्तम् ।
अर्जुनप्रसादार्
असौ हृदन्तर्हितमोहरोधने सदा यते रक्ष यशो भियो जय ।
असौहृदं
अत्र असौ इति, हृदन्तर्हितमोहरोधने इति, सदा इति, यते इति, रक्ष इति,
यशः इति, भियः इति, जय इति, असौहृदं इति, तर्हि इति, तमोहरः इति, धने
इति, सदायतेः इति, अक्षयशोभि इति, योजय इति पदच्छेदः । हे भगवन्दयालो,
हृदि अन्तर्हितोऽभ्यन्तरविलीनश्चासौ मोहोऽज्ञानं तस्य रोधनेऽप्रसरणेऽहं सदा यते प्र-
यत्नं करोमि । 'यती प्रयत्ने' धातुः । परं त्वं यशो मम रक्ष । यथा संयतचित्तानां
मध्ये यशो लभ्यते तथा कुर्वित्यर्थः । तथा भियो भीतयो जन्मजरामरणजाः अर्थान्म-
दीया जय । असौहृदमिति । हे भगवन्, तर्हि सदायतेः सती आयतिरागामिकालो
Digitized by Google