This page has been fully proofread once and needs a second look.

३८२
 
काव्यमाला ।
 
देव्यां भ्रमद्भुवि जयाविजयाचिंभ्रुवि जयाविजयार्चितायां

सक्ता तवास्तविजया विजयाय दृष्टिः ।

वृष्ट्येव भूर्दिविजया विजयाख्यया ते

मूर्त्या [^१]त्रसद्रविजयावि जयाह्वया च ॥ ७० ॥
 
>
 

 
अत्र देव्यां इति, भ्रमद्भुवि इति, जयाविजयाचिभ्रुवि इति, जयाविजयाचिंतायां इति, सक्ता इति, तव इति,

अस्तविजया इति, विजयाय इति, दृष्टिः इति, वृष्टथाट्या इति, इव इति, भूः इति, दिवि-

जया इति, विजयाख्यया इति, ते इति, मूर्त्या इति, त्रसद्रविजया इति, आवि इति,

जयाह्या इति च इति पदच्छेदः । हे भगवन् अस्तः क्षिप्तः । दत्त इत्यर्थः । विजयो

विशिष्टो जयो यया सा अस्तविजया । कस्मै । विजयायार्जुनाय पार्थाय दत्तविजया ।

जया पार्वतीसखी विजया च देवी ताभ्यामर्चिता पूजिता तादृश्याम् । तथा भ्रमवि
द्भ्रुवि
भ्रूविलासशीलायां देव्यां पार्वत्यां ते तव दृष्टिः सक्ता । त्रिजगदधीशस्य भवतो निजपि-

तुराश्रमेषु विहितातिकठिनतपसि पार्वत्यां तव दृक् सक्तेत्यर्थः । अधुना निजभक्तजनानु-

द्धर्तुतुं विहितनिजदेशकाश्मीरस्थितिश्रीविजयेश्वरं स्तौति कविः पृ-वृष्ट्येवेत्यादि । तथा

हे विभो, ते तव संबन्धिन्या विजयाख्यया विजयेश्वरसंज्ञया काश्मीरदेशेऽतिप्रसिद्धया

तथा जयाह्वया च जय इत्याहाह्वा यस्याः सा जयाहाह्वा तया जयेश्वरा- भिया मूर्त्या स्वयंभू-

लिङ्गद्वयरूपया आकृत्या भूः पृथ्वी आवि रक्षिता । 'अव रक्षणे' धातुः । कैवल्यपदप्रदा-

नेनेत्यर्थः । कयेव इव । दिविजया वृष्ट्या इव । कीदृश्या मूर्त्या । त्रसद्रविजया त्रसन् रविजो

यमो यस्यास्तादृश्या ॥
 

शिवैकतानान्भक्तजनान्प्रति कविः साशीर्वादं वक्ति -
 

 
हरमुपेत रसादमलं घनं दमलङ्घनं तनुत मा कृतिनः ।
 

तनुतमाकृति नः श्रयताहतं श्रयतादृतं श्रयतादृतं भवत इत्युदितम् ॥ ७९ ॥
 

 
अत्र हरं इति, उपेत इति, रसात् इति, अमलं इति, घनं इति, दमलङ्घनं इति, त

नुत इति, मा इति, कृतिनः इति तनुतमाकृति इति, नः इति, श्रयत इति, आदृतं

इति श्रयतात् इति, ऋतं इति, भवतः इति, इति इति, उदितं इति पदच्छेदः । हे

कृतिनः, इत्यनेन प्रकारेण तनुतमा अत्यल्पा आकृतिर्यस्य वचनस्य तत्तनुतमाकृति अ

तिसंक्षिप्तं श्रयत आश्रयत । शृणुतेत्यर्थः । जनेनादृतमभिनन्दितम् । ऋतं सत्यम् । नोऽस्मा-

कमुदितं वचनम् । 'वद व्यक्तायां वाचि' धातुः । 'नपुंसके भावे क्तः' । नोऽस्माकं व

चनं भवतः कर्मभूतान् श्रयतात् । भवदीयमनस्यत्यन्तलीनमस्त्स्वित्यर्थः । इति किमि-

त्याह - हरमिति । हे कृतिनः धन्या जनाः, घनमत्यर्थममलं निर्मलं हरं भवामयहरं श्री-

शंभुं रसात्तदेकचित्ततया उपेत श्रयत । तथा हे कृतिनः, दमस्योपशमस्य लङ्घनं दमल-

ङ्घ
नं मा तनुत मा कुरुत । इति संक्षिप्तमस्माकं वच इत्यर्थः ॥
 

 
[^
]. 'भ्रमत्' ख.
 
Digitized by Google