2023-02-23 21:28:04 by ambuda-bot
This page has not been fully proofread.
३८२
काव्यमाला ।
देव्यां भ्रमद्भुवि जयाविजयाचिंतायां
सक्ता तवास्तविजया विजयाय दृष्टिः ।
वृष्टयेव भूर्दिविजया विजयाख्यया ते
मूर्त्या त्रसद्रविजयावि जयाह्वया च ॥ ७० ॥
>
अत्र देव्यां इति, भ्रमद्भुवि इति, जयाविजयाचितायां इति, सक्ता इति, तव इति,
अस्तविजया इति, विजयाय इति, दृष्टिः इति, वृष्टथा इति, इव इति, भूः इति, दिवि-
जया इति, विजयाख्यया इति, ते इति, मूर्त्या इति, त्रसद्रविजया इति, आवि इति,
जयाह्नया इति च इति पदच्छेदः । हे भगवन् अस्तः क्षिप्तः । दत्त इत्यर्थः । विजयो
विशिष्टो जयो यया सा अस्तविजया । कस्मै । विजयायार्जुनाय पार्थाय दत्तविजया ।
जया पार्वतीसखी विजया च देवी ताभ्यामर्चिता पूजिता तादृश्याम् । तथा भ्रमवि
भ्रूविलासशीलायां देव्यां पार्वत्यां ते तव दृष्टिः सक्ता । त्रिजगदधीशस्य भवतो निजपि-
तुराश्रमेषु विहितातिकठिनतपसि पार्वत्यां तव दृक् सक्तेत्यर्थः । अधुना निजभक्तजनानु-
द्धर्तु विहितनिजदेशकाश्मीरस्थितिश्रीविजयेश्वरं स्तौति कविः पृष्टयेवेत्यादि । तथा
हे विभो, ते तव संबन्धिन्या विजयाख्यया विजयेश्वरसंज्ञया काश्मीरदेशेऽतिप्रसिद्धया
तथा जयाह्वया च जय इत्याहा यस्याः सा जयाहा तया जयेश्वरा भिघया मूर्त्या स्वयंभू-
लिङ्गद्वयरूपया आकृत्या भूः पृथ्वी आवि रक्षिता । 'अव रक्षणे' धातुः । कैवल्यपदप्रदा-
नेनेत्यर्थः । कयेव इव । दिविजया वृष्टया इव । कीदृश्या मूर्त्या । त्रसद्रविजया त्रसन् रविजो
यमो यस्यास्तादृश्या ॥
शिवैकतानान्भक्तजनान्प्रति कविः साशीर्वादं वक्ति -
हरमुपेत रसादमलं घनं दमलङ्घनं तनुत मा कृतिनः ।
तनुतमाकृति नः श्रयताहतं श्रयतादृतं भवत इत्युदितम् ॥ ७९ ॥
अत्र हरं इति, उपेत इति, रसात् इति, अमलं इति, घनं इति, दमलङ्घनं इति, त
नुत इति, मा इति, कृतिनः इति तनुतमाकृति इति, नः इति श्रयत इति, आदृतं
इति श्रयतात् इति, ऋतं इति, भवतः इति, इति इति, उदितं इति पदच्छेदः । हे
कृतिनः, इत्यनेन प्रकारेण तनुतमा अत्यल्पा आकृतिर्यस्य वचनस्य तत्तनुतमाकृति अ
तिसंक्षिप्तं श्रयत आश्रयत । शृणुतेत्यर्थः । जनेनादृतमभिनन्दितम् । ऋतं सत्यम् । नोऽस्मा-
कमुदितं वचनम् । 'वद व्यक्तायां वाचि' धातुः । 'नपुंसके भावे क्तः' । नोऽस्माकं व
चनं भवतः कर्मभूतान् श्रयतात् । भवदीयमनस्यत्यन्तलीनमस्त्वित्यर्थः । इति किमि-
त्याह - हरमिति । हे कृतिनः धन्या जनाः, घनमत्यर्थममलं निर्मलं हरं भवामयहरं श्री-
शंभुं रसात्तदेकचित्ततया उपेत श्रयत । तथा हे कृतिनः, दमस्योपशमस्य लङ्घनं दमल-
वनं मा तनुत मा कुरुत । इति संक्षिप्तमस्माकं वच इत्यर्थः ॥
१. 'भ्रमत्' ख.
Digitized by Google