This page has been fully proofread once and needs a second look.

३० स्तोत्रम्].
 
स्तुतिकुसुमाञ्जलिः ।
 
३८१
 
अत्र परमारकान्तककृतोपरम इति, अपरं इति, आनतं इति, तव इति, दृशा इति,

आप इति, रमा इति, परमार्थसगुणपरम्पर इति, मा इति, परमार्ते इति, उज्झ इति,
करुणापर इति, मा इति पदच्छेदः । परं मारकश्वासावन्तको यमस्तस्य कृत उपरमो
विनाशो येन स परमारकान्तक कृतोपरमस्तस्य संबोधनं हे परमारकान्तक कृतो-
परम । तथा हे
परमार्थसद्गुणपरम्पर । परमार्थतःइति, मा इति, परमार्ते इति, उज्झ इति,
करुणापर इति, मा इति पदच्छेदः । परं मारकश्चासावन्तको यमस्तस्य कृत उपरमो
विनाशो येन
ती शोभना गुणपरम्परा यस्य तस्य
परमारकान्तक कृतोपरमस्तस्य संबोधनं हे परमारकान्तक कृतो-
परम । तथा हे परमार्थसद्गुणपरम्पर । परमार्थतः सती शोभना गुणपरम्परा यस्य तस्य
संबोध
नम् । तव दृशा रमा लक्ष्मीरपरमन्यमानतं जनं आप प्राप । हे करुणापर

विभो, स्त्वं मा मां कर्मभूतं मा उज्झ मा त्यज । किंभूतम् । परमत्यर्थमार्तम् ॥
 

 
कलकलकलकलकण्ठवदस्मानव नवनवनवरोचितवाचः ।
 

भव भव भवभवभीतिभिदस्यन्मदमदमदमदनान्तक दूरम् ॥ ६८ ॥
 

 
कलो मधुरः कलकलः कोलाहलो येषां ते तादृशा ये कलकण्ठाः कोकिलास्तद्वत्

नवनवनवरोचितवाचः नवं नूतनं च तन्नवनं स्तुतिभूमिरूपं तेन वरा उत्कृष्टा उचिता

वाग्येषां ते तादृशास्तान् नवनवनवरोचितवाचः अस्मानव रक्ष । 'अव रक्षणे' धातुः ।

हे भव, हे अदमदमनान्तक । न दमं शमं ददातीत्यदमदस्तादृशो यो मदनः कामस्त-

स्यान्तको यमस्तत्संबोधनम् । त्वमस्मानव । किं कुर्वन् । मदमहंकारमान्तरं रिपुं अ

र्थाद्भक्तजनस्य अस्यन्दूरीकुर्वन् । कथम् । दूरन्म् । भवभवभीतिभित् भवात्संसाराद्भव

उत्पत्तिर्यस्याः सा भवभवा तादृशी या भीतिस्तां भिनत्तीति तादृक् त्वं भव । भवेति

लोट्मध्यमपुरुषैकवचनान्तं क्रियापदम् ॥
 

 
अस्य पाठान्तरम् -
 

 
अविकलकल कलकलकलकण्ठं दिश नवनवनवनवन वरवंचः
 
[^१] ।
 
सविभव भव भव भवभवभयभिद्धर मदमदमदमदमदयमिमेम्मम्[^२] ॥ ६९ ॥
 

 
हे अविकलकल । अविकलाः पूर्णाः कला ब्रह्मादिसदाशिवान्तः पञ्च यस्य स तादृ-

शस्तत्संबोधनम् । सकलभट्टारक । हे नवनवनवनवन अतिशयेन नवानि नवनवानि

अनुच्छिष्टानि नवानां स्तवानां नवनानि (स्तवनानां वनानि) यस्य स तस्य संबोधनम् ।

त्वं वरवचः उत्कृष्टमभयदानवचनं दिश देहि । अर्थान्मादृशजनायेत्यर्थः । किंभूतं वचः ।

कलकलकलकण्ठं कलकलेन कलो मधुरः कण्ठः कण्ठस्वरो यस्मिंस्तत् । हे सविभव
स्वतन्त्रम

स्वतन्त्रम
हैश्वर्ययुत, हे भव, त्वं भवात्संसाराद्भव उत्पत्तिर्यस्य तादृशं यद्भयं तद्भिनत्तीति

भवभवभयभित् भव । अर्थादस्माकम् । हे विभो, अदयं निर्दयं मदमहंकारमान्तरं रिपुं

हर दूरीकुरु । किंभूतं मदम् । अदमोऽनिवार्यो यो दमः शान्तिस्वरूपस्तं द्यति खण्डय

तीत्यदमदमदस्तादृशम् । 'दो अवखण्डने' धातुः ॥
 

 
[^
]. 'इमम्' ख.
[^
]. 'अयम्' ख.
 
Digitized by Google