2023-02-23 21:28:04 by ambuda-bot
This page has not been fully proofread.
३० स्तोत्रम्].
स्तुतिकुसुमाञ्जलिः ।
३८१
अत्र परमारकान्तककृतोपरम इति, अपरं इति, आनतं इति, तव इति, दृशा इति,
आप इति, रमा इति, परमार्थसगुणपरम्पर इति, मा इति, परमार्ते इति, उज्झ इति,
करुणापर इति, मा इति पदच्छेदः । परं मारकश्वासावन्तको यमस्तस्य कृत उपरमो
विनाशो येन स परमारकान्तक कृतोपरमस्तस्य संबोधनं हे परमारकान्तक कृतो-
परम । तथा हे परमार्थसद्गुणपरम्पर । परमार्थतः सती शोभना गुणपरम्परा यस्य तस्य
संबोधनम् । तव दृशा रमा लक्ष्मीरपरमन्यमानतं जनं आप प्राप । हे करुणापर
विभो, स्वं मा मां कर्मभूतं मा उज्झ मा त्यज । किंभूतम् । परमत्यर्थमार्तम् ॥
कलकलकलकलकण्ठवदस्मानव नवनवनवरोचितवाचः ।
भव भव भवभवभीतिभिदस्यन्मदमदमदमदनान्तक दूरम् ॥ ६८ ॥
कलो मधुरः कलकलः कोलाहलो येषां ते तादृशा ये कलकण्ठाः कोकिलास्तद्वत्
नवनवनवरोचितवाचः नवं नूतनं च तन्नवनं स्तुतिभूमिरूपं तेन वरा उत्कृष्टा उचिता
वाग्येषां ते तादृशास्तान् नवनवनवरोचितवाचः अस्मानव रक्ष । 'अव रक्षणे' धातुः ।
हे भव, हे अदमदमनान्तक । न दमं शमं ददातीत्यदमदस्तादृशो यो मदनः कामस्त-
स्यान्तको यमस्तत्संबोधनम् । त्वमस्मानव । किं कुर्वन् । मदमहंकारमान्तरं रिपुं अ
र्थाद्भक्तजनस्य अस्यन्दूरीकुर्वन् । कथम् । दूरन् । भवभवभीतिभित् भवात्संसाराद्भव
उत्पत्तिर्यस्याः सा भवभवा तादृशी या भीतिस्तां भिनत्तीति तादृक् त्वं भव । भवेति
लोट्मध्यमपुरुषैकवचनान्तं क्रियापदम् ॥
अस्य पाठान्तरम् -
अविकलकल कलकलकलकण्ठं दिश नवनवनवनवन वरवंचः ।
सविभव भव भव भवभवभयभिद्धर मदमदमदमदमदयमिमेम् ॥ ६९ ॥
हे अविकलकल । अविकलाः पूर्णाः कला ब्रह्मादिसदाशिवान्तः पञ्च यस्य स तादृ-
शस्तत्संबोधनम् । सकलभट्टारक । हे नवनवनवनवन अतिशयेन नवानि नवनवानि
अनुच्छिष्टानि नवानां स्तवानां नवनानि (स्तवनानां वनानि) यस्य स तस्य संबोधनम् ।
त्वं वरवचः उत्कृष्टमभयदानवचनं दिश देहि । अर्थान्मादृशजनायेत्यर्थः । किंभूतं वचः ।
कलकलकलकण्ठं कलकलेन कलो मधुरः कण्ठः कण्ठस्वरो यस्मिंस्तत् । हे सविभव
स्वतन्त्रम हैश्वर्ययुत, हे भव, त्वं भवात्संसाराद्भव उत्पत्तिर्यस्य तादृशं यद्भयं तद्भिनत्तीति
भवभवभयभित् भव । अर्थादस्माकम् । हे विभो, अदयं निर्दयं मदमहंकारमान्तरं रिपुं
हर दूरीकुरु । किंभूतं मदम् । अदमोऽनिवार्यो यो दमः शान्तिस्वरूपस्तं यति खण्डय
तीत्यदमदमदस्तादृशम् । 'दो अवखण्डने' धातुः ॥
१. 'इमम्' ख. २. 'अयम्' ख.
Digitized by Google