This page has not been fully proofread.

३८०
 
काव्यमाला ।
 
समयासिषुः इति, क्व इति, न इति, विकास इति, अया इति, समयापति इति, जगति
इति, यं इति, समया इति, समया इति, भवन्ति इति च इति, विलासमया इति, स इति,
मया इति, गिरा इति, अर्च्यत इति, सुधासमया इति पदच्छेदः । स विभुः परमेश्वरः
सुघासमया अमृततुल्यया गिरा वाण्या मया वराकेण अर्च्यत अस्तूयत । स क इत्याह ।
समयाशब्दोऽव्ययम् । समयाया देव्याः पतिस्त्वम् । समया देवी हीनातिरिक्त होमार्चन-
विधिपूरणार्थे यज्ञान्ते तर्पणीयेत्यागमप्रसिद्धा । यं समयापति श्रीशंभुं समया निकट-
स्थितस्य भक्तिप्रजनस्य अयाः शुभावहा विधयो जगति भूमण्डले क्व न विकास
विस्तारमयासिषुरगच्छन् । अपि तु सर्वत्र । तथा समयापतेर्यस्य देवस्य निकटे स्थि-
तानां नतजनानां विलासमया विलासप्रचुराः समया अवसरा भवन्ति ॥
 
कलिकालताम्यदमृतोत्कलिका कलिकातरे हृदि नवोत्कलिका ।
 
कलिका स्त्रजीव जितशाकलिकाकलि कान्तिभृत्व मुकुटे कलिका ६५
 
हे भगवन्, कलिका भवदिच्छोत्पन्नजनकलहेन कातरे सकृपे तव हृदि उत्कलिका
उत्कण्ठा कलिकालताम्यदमृतोत्कलिका अकलि आकलिता जनेन । कलिकाले ता-
म्यतां ग्लायतां जनानाममृतोत्कलिका पीयूषलहरी ज्ञातेत्यर्थः । तथा हे जितशाक-
लिक । शकलैर्मत्स्यैर्जीवन्ति शाकलिका मत्स्यघातिनः जिताः शाकलिका अर्जुनप्रम-
दार्थ किरातरूपेण भवता येन स तस्य संबोधनं हे जितशांकलिक श्रीशंभो, कान्ति-
भृत् ज्योत्स्नाधारिणी कलिका कलैव कलिका इन्दुलेखा तव मुकुटे स्रजि मालायां
कलिका सूक्ष्मकुष्ालमिवाकलि ज्ञाता ॥
 
कलयाश्रितं विरुजमेकल्या कलया विधोर्दलितपाकलया ।
 
कलया गिरा च सकलाकल या कलया विना विहितशोकलया ॥६६॥
 
हे भगवन्, सकलाकल । सकल: 'त्रिपञ्चनयनं देवं जटामुकुटमण्डितम्' इति
ध्यानेन ध्येयरूपः स्वच्छन्दभैरवः । अकलो निष्कलः अद्वैतरूपो निरञ्जनो भगवान् ।
तस्य संबोधनम् । एकलया एकया स्वार्थे लः । एकैव एकला तथा विधोचन्द्रस्य क
लया त्वं आश्रितं प्रपन्नं मां विरुजं विगता रुग्भवामयो यस्य स तादृशं कलय कुरु ।
नीरोगं कुर्वित्यर्थः । कलया किंभूतया । दलितपाकलया। यद्यपि पाकलो हस्तिज्वर
एवायुर्वेदे प्रसिद्धस्तथापि कविभिः सामान्यज्वरेऽपि प्रयुक्तः । दलितः पाकलो ज्वरो
जन्मजरादिरूपो यया सा तादृश्या । तथा हे सकलाकल भगवन्, तथा कलया मधु-
रया गिरा च मां विरुजं नीरोगं कलय कुरु । तया गिरा कयेत्याह - या गीः कलया
व्याजेन विना विहितः कृतः शोकस्य भक्तजनदुःखस्य लयो नाशो यया सा तादृशी
भवति ॥
 
परमारकान्तककृतोपरमापरमानतं तव दृशाप रमा ।
परमार्थसद्गुणपरम्पर मा परमार्तमुज्झ करुणापर मा ॥ ६७ ॥
 
Digitized by Google