2023-10-24 12:56:45 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
३७९
निजभक्तजनार्तिवारणे तवाखण्डितं पौरुषमित्यर्थः । हे विभो, विपाशं पञ्चकलारूपेणा-
वरणं पाशः स विगतो यस्मात्तत् । तथा अनाशमक्षयं शं कैवल्यं मे देहि । त्वं किं-
भूतः । अनाथानामशरणानां जनानां प्रथिता । विस्तीर्णा इति यावत् । आशा मनो-
रथा येन तत्तादृशं मनश्चित्तं यस्य स तादृशः अनाथजनप्रथिताशमनाः ॥
मधुनाशिनार्चित समं मधुना मधुनामपुष्पजनुषा मधुना ।
मधुनालसामिव वधूमधुनामधुना
अत्र मधुनाशिना इति, अर्चित इति, समं इति, मधुना इति, मधुनामपुष्पजनुषा
इति, मधुना इति, मधुना इति, अलसां इति, इव इति, वधूं इति, अधुनां इति, अ-
धुना इति, प्
ना
नार्चित मधुनामदानववैरिणा विष्णुना अ
धूकं 'मधुकेऽपि मधु स्मृतम्' इत्युक्तदिशा मधुनामानि मधूकाख्यानि यानि पुष्पाणि
तेभ्यो जनुर्जन्म यस्य तत्तादृशेन मधुनामपुष्पजनुषा मधुना किंजल्केन कारणभूतेन म
धुना वसन्तेन समं अर्चित मधूकपुष्पोद्भवेन किंजल्केन करणेन वसन्तेनाप्यर्चित ।
मधूना प्लुतामिति मधुना क्षौद्रेण
अधुनां अकम्पयम् । 'धूञ् कम्पने' धातुः । सुप्तामि
मधुनालसा मधुना मद्येनालसां मन्दसौष्ठवां वधूमिव । यथा कश्चिद्वधूं धुनोति तथा ॥
वसु धान्यमुज्झितुमपीवसु धावसुधासितच्छवियशोवसुधा ।
वसुधातृवन्द्य यदसावसुधा वसुधाम दृक्तव नवेव सुधा ॥ ६३ ॥
अत्र वसु इति, धान्यं इति, उज्झितुं इति, अपीवसु इति, धाव इति, सुधासित-
च्छवियशोवसुधा इति, वसुधातृवन्द्य इति, यत् इति, असौ इति, असुधा इति, वसु-
धाम इति, ह
धाम इति, दृगिति, तव इति, नवा इति इव इति, सुधा इति पदच्छेदः । हे वसुधा-
तृवन्द्य । वसवोऽष्टौ देवयोनयः तथा धातारः स्रष्टारो मुनयश्च तैर्वन्द्य हे विभो, अपीवसु
न पीवानो धनधान्यादिसमृद्ध्या स्थूलास्तेषु कृशेषु जनेषु वसु धनं धान्यं च उज्झितुं
त्यक्तम् । दातुमित्यर्थः । तेषु धनं धान्यं दातुं धाव वेगेन गच्छ। शीघ्रमेव गत्वा देही-
त्यर्थः । त्वं कः । आरोपेण योजना - सुधासितच्छवियशोवसुधा सुधावत्सिता छवि-
र्यस्य ईदृशं यद्यशस्तस्य वसुधा भू: आस्पदम् । अमृतच्छविय- शोभूमिस्त्वमित्यर्थः ।
तत्कुत इत्याह – यद्यस्मात्कारणात्तव विभोर्
सुधा भवति । '
किंभूता । वसुनस्तेजसः सूर्येन्द्र
-
समयासिषुः क्व न विकासमया समयापतिं जगति यं समया ।
समया भवन्ति च विलासमया स मया गिरार्च्यत सुधामया ॥ ६४ ॥
Digitized by Google