This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
सा । पुनः किंभूता । आकल्पाश्ञ्चिता आकल्पैरलंकारैः शब्दालंकारैर्वक्रोक्तिश्लेषादि-

भिरर्थालंकारैरुपमादिमिभिश्वाचाञ्चिता शोभिता । पुनः कीदृशी । इन्दुकल्पा चन्द्रतुल्या अ
'

तिनिर्मलत्वात्संतापहृत्त्वाच्च । तथा कल्पो वेदाङ्गं कल्पाख्यानि यानि सूत्राणि तेषां

विदुरा वेत्तीति विदुरा । तथा आगमेषु श्रीशैवादिशास्त्रेषु दृष्ट: कल्पः शास्त्रविधिर्यया

सा । तथा अमृतानुकल्पा । शिवैकतानानां जनानाममृतवर्षिणीत्यर्थः ॥
 

 
सहसार्क इवास्मि कृतः सहसासहसारभृदात्मभुवा सहसा ।
 

सह सायकमस्यति या सहसा सहसाध्वसमेत्यपि दुःसहसा ॥ १९ ॥
 

 
हे विभो, आत्मभुवा कामेन अस्मि अहं सहसा त्वरितं सहसा बलेन असहसारभृत्

अक्षमबलधारी कृतोऽस्मि । केन क इव । सहसा मार्गशीर्षेण अर्क इव । यथा तेन सोऽपि

तादृशः क्रियते । सहसेत्यादि । कष्टे । स आत्मभूः काम: सायकं शरमस्यति क्षि-

पति । मां प्रतीति शेषः । तं सायकं कम् । या स्त्री सेति । संमुखमागच्छति मामिति

शेषः । कथम् । सह साध्वसेन भयेन यथा तथा । सयमपीत्यर्थः । या कीदृशी । सहसा

सह हसेन हासेन वर्तते या सा सहसा । पुनः किंभूता । दुःसहसा दुःखेन सह्यन्ते दुःसहा

अविषह्यवीर्यास्तान्स्यति हिनस्ति दुःसहसा । स्त्रीरूपं शरमस्यतीत्यर्थः । 'षोऽन्तकर्मणि'

धातुः । अतोऽस्मात्कामवेगान्मां दीनं पाहीत्यर्थः । अत्र वृत्ते उत्तरार्धे स इति, ह इति,

सायकमिति, अस्यति इति पदच्छेदः ॥
 

 
जनयाशुचमार्तसभाजनयाजनयाचनरञ्जनवेजनया ।
 

जनयामलखिन्नमखञ्जनयाज नयामृतमात्मनियोजनया ॥ ६० ॥

 
अत्र जनयेति, अशुचमिति, आर्तमिति, अभाजनयाजनयाचनरञ्जनवेजनयेति, जन-

यामलखिन्नमिति, अखञ्जनय इति, अज इति, नयेति, अमृतमिति, आत्मनीति, योजन-

येति पदच्छेदः । हे अज अनादे, हे अखञ्जनय अविकलनीते, त्वमभाजनानामपात्रा-

णामयोग्यानां याजनेन याचनेन रञ्जनेन च या वेजना उद्वेजनं तया अभाजनयाजनया-

चनरञ्जनवेजनया आर्तमर्थान्मामेव अशुचं निर्दुःखं जनय संपादय । अविद्यमाना शुग्यस्य

सोऽशुक् तम् । तथा मामेव जनयामलखिन्नं यमलभावो यामलं समूहस्तेन खिन्नं भर्तव्यज

नमेलापक्लिष्टं मां दीनममृतं नय मोक्षं प्रापय । कया । आत्मनियोजनया निजसायुज्येन ॥

 
शमनाय शुचां त्वमुमेश मनाक् शमनार्तिकरः कृतभीशम ना ।

शमनामय देहि विपाशमनाशमनाथजनप्रथिताशमनाः ॥ ६१ ॥
 
>
 

 
अत्र शमनाय इति, शुचां इति, त्वं इति, उमेश इति, मनाक् इति शमनार्तिकर

इति, कृतमीभीशम इति, ना इति, शं इति, अनामय इति, देहि इति, विपाशं इति, अ-

नाशं इति, अनाथजनप्रथिताशमनाः इति पदच्छेदः । हे उमेश पार्वतीप्राणनाथ, हे

कृतभीशम । कृतो भियो भक्तजनसंबन्धिन्याः शमो येन तस्य संबोधनम् । हे अना

मय षडूर्मिरहित, मनागीषत् अनायासेन शमनस्य यमस्यार्ति पीडां करोतीति शमना-
Digitized by Google