This page has not been fully proofread.

काव्यमाला ।
 
सा । पुनः किंभूता । आकल्पाश्चिता आकल्पैरलंकारैः शब्दालंकारैर्वक्रोक्तिश्लेषादि-
भिरर्थालंकारैरुपमादिमिश्वाचिता शोभिता । पुनः कीदृशी । इन्दुकल्पा चन्द्रतुल्या अ
'तिनिर्मलत्वात्संतापहृत्त्वाच्च । तथा कल्पो वेदाङ्गं कल्पाख्यानि यानि सूत्राणि तेषां
विदुरा वेत्तीति विदुरा । तथा आगमेषु श्रीशैवादिशास्त्रेषु दृष्ट: कल्पः शास्त्रविधिर्यया
सा । तथा अमृतानुकल्पा । शिवैकतानानां जनानाममृतवर्षिणीत्यर्थः ॥
 
सहसार्क इवास्मि कृतः सहसासहसारभृदात्मभुवा सहसा ।
 
सह सायकमस्यति या सहसा सहसाध्वसमेत्यपि दुःसहसा ॥ १९ ॥
 
हे विभो, आत्मभुवा कामेन अस्मि अहं सहसा त्वरितं सहसा बलेन असहसारभृत्
अक्षमबलधारी कृतोऽस्मि । केन क इव । सहसा मार्गशीर्षेण अर्क इव । यथा तेन सोऽपि
तादृशः क्रियते । सहसेत्यादि । इ कष्टे । स आत्मभूः काम: सायकं शरमस्यति क्षि-
पति । मां प्रतीति शेषः । तं सायकं कम् । या स्त्री सेति । संमुखमागच्छति मामिति
शेषः । कथम् । सह साध्वसेन भयेन यथा तथा । समयमपीत्यर्थः । या कीदृशी । सहसा
सह हसेन हासेन वर्तते या सा सहसा । पुनः किंभूता । दुःसहसा दुःखेन सह्यन्ते दुःसहा
अविषयवीर्यास्तान्स्यति हिनस्ति दुःसहसा । स्त्रीरूपं शरमस्यतीत्यर्थः । 'षोऽन्तकर्मणि'
धातुः । अतोऽस्मात्कामवेगान्मां दीनं पाहीत्यर्थः । अत्र वृत्ते उत्तरार्धे स इति, ह इति,
सायकमिति, अस्यति इति पदच्छेदः ॥
 
जनयाशुचमार्तसभाजनयाजनयाचनरञ्जनवेजनया ।
 
जनयामलखिन्नमखञ्जनयाज नयामृतमात्मनियोजनया ॥ ६० ॥
अत्र जनयेति, अशुचमिति, आर्तमिति, अभाजनयाजनयाचनरञ्जनवेजनयेति, जन-
यामलखिन्नमिति, अखञ्जनय इति, अज इति, नयेति, अमृतमिति, आत्मनीति, योजन-
येति पदच्छेदः । हे अज अनादे, हे अखजनय अविकलनीते, त्वमभाजनानामपात्रा-
णामयोग्यानां याजनेन याचनेन रञ्जनेन च या वेजना उद्वेजनं तया अभाजनयाजनया-
चनरञ्जनवेजनया आर्तमर्थान्मामेव अशुचं निर्दुःखं जनय संपादय । अविद्यमाना शुग्यस्य
सोऽशुक् तम् । तथा मामेव जनयामलखिन्नं यमलभावो यामलं समूहस्तेन खिन्नं भर्तव्यज
नमेलापक्लिष्टं मां दीनममृतं नय मोक्षं प्रापय । कया । आत्मनियोजनया निजसायुज्येन ॥
शमनाय शुचां त्वमुमेश मनाक् शमनार्तिकरः कृतभीशम ना ।
शमनामय देहि विपाशमनाशमनाथजनप्रथिताशमनाः ॥ ६१ ॥
 
>
 
अत्र शमनाय इति, शुचां इति, त्वं इति, उमेश इति, मनाक् इति शमनार्तिकर
इति, कृतमीशम इति, ना इति, शं इति, अनामय इति, देहि इति, विपाशं इति, अ-
नाशं इति, अनाथजनप्रथिताशमनाः इति पदच्छेदः । हे उमेश पार्वतीप्राणनाथ, हे
कृतभीशम । कृतो भियो भक्तजनसंबन्धिन्याः शमो येन तस्य संबोधनम् । हे अना
मय षडूमिरहित, मनागीषद अनायासेन शमनस्य यमस्याति पीडां करोतीति शमना-
Digitized by Google