2023-10-24 12:29:15 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
३७७
मान्तराणां षण्णां कामक्रोधादीनां समूह आरं हतं षड्
कालायसोपमरुचिर्गलभूः
कालाग्निवदृगपि ते क्षणदग्धकाला ।
काला यथोक्तिरमृदुः क्षतसेवकाला
का लाभकृन्मम विनाभिरनन्तकाला ॥ १६ ॥
हे विभो, कालायसं कृष्णायसं तदुपमा रुचिर्यस्याः सा तादृशी ते तव गलभूः कण्ठ-
स्थानं सुकाला सुष्
त्क्षणं दग्धः कालो यया सा तादृशी भवति । तथा काला कालानाम्नी देवी यथा अमृ
दुर्विकराला तथा ते उक्तिरमृदुरपि क्षतसेवकाला भवति क्षता सेवकानामाला अपवादो
यया सा तादृशी भवति । आला इति देशीपदम् । हे भगवन्, आभिर्भवत्कण्ठभूभव-
दृ
दॄग्भवदुक्तिभिर्विना कान्या मम लाभकृत् । न कापीत्यर्थः । का कीदृशी । अनन्तकाला
अविद्यमान अन्तकालो यस्याः सा ॥
मुक्तार्पितस्वपदपूर्णकृपाविमुक्ता
मुक्तार्चनादिरतिनार्किभयाद्विमुक्ता ।
मुक्तावलीव विमला त्वयि गीरमुक्ता
मुक्तान्यमार्गगमनेन मयेयमुक्ता ॥ ५७ ॥
हे भगवन्, मुक्तमन्यमार्गगमनं येन स तादृशस्तेन । तथा मुक्ताभिः शुक्त्युद्भवामि .
र्यदर्चनं पूजनं यथाशक्ति तदादौ रतिर्यस्य स तादृशस्तेन मया वराकेणाशरणेन अर्कस्या-
पत्यमार्किर्यमस्तस्य भयात्रासाद्धेतोरियं गीर्दीनोक्तिः उक्ता भवतः स्वामिनोऽ
किंभूता । मुक्तेभ्यो मोक्षपदवीं प्राप्तेभ्योऽर्पितं यत्स्वपदं निजसायुज्यं तदेव पूर्णकृपा
तया अविमुक्ता अविरहिता । पुनः किंभूता । अमुक्ता अनल्पा । तथा विमला निर्दोषा
स्वच्छा । केव । मुक्तावलीव मुक्तालतेव ॥
कल्पाह्ववल्लिरिव धौतविपद्विकल्पा-
कल्पाश्
कल्पाञ्चिता कृतनुतिर्भवतीन्दुकल्पा ।
कल्पाख्यसूत्रविदुरागमदृष्टकल्पा-
कल्पाक्षयास्तु मम गीरमृतानुकल्पा ॥ १८ ॥
इयं मम गीर्वाणी आकल्पाक्षया कल्पो ब्राह्मं दिनं कल्पात् आ आकल्पं अक्षया
निर्विनाशा अस्तु । किंभूता । कृतनुतिः कृता नुतिः श्रीशंभुस्तुतिर्यया सा । पुनः किं-
भूता । धौतो निराकृतो विपदो जन्मजरामरणत्रासोत्पन्नाया आपदो विकल्पो यया
४८
Digitized by Google