This page has been fully proofread once and needs a second look.

३७६
 
काव्यमाला ।
 
सारावकोकिलवचः समसूक्तिसारा

सारावलीव गुरुंतापकृतापसारा ॥ १३ ॥
 

 
हे भगवन्, मम मन्दमतेर्धीर्बुद्धिस्त्वयि विभौ विषये मन्दसारा मन्दः सारो गमनं

यस्याः सा तादृशी भवति । किंभूता । सारासहा सारमुचितमुत्कृष्टं न सहते सारा-

सहा । अनुचितमार्गगेत्यर्थः । पुनः किंभूता । सह आराधनेन वर्तते या साराधना । अत्र

हेतुः—

किंभूता । विहितो मोहनिशायामविद्यारूपनिशायामभिसारो यया । पुनः की-

दृशी । सह आरावेण कुहू इति शब्देन वर्तन्ते तादृशा ये कोकिलास्तेषां वचसा समः

सूक्तिसार उत्कृष्टकाव्यं यस्याः सा । पुनः किंभूता। गुरोर्महतस्तापस्य त्रिविधस्य

कृतोऽपसारो निःशेषीकरणं यया सा। केव। सारावलीव सारावली औषधिरिव ज्वर-

तापहारिका ॥
 

 
सामात्यभूपसदसीक्षितसूक्तिसामा

सामाजिकाहितनुतिः कृतसेर्ष्यसामा ।

सामान्यवर्त्म न ययाश्रयमोजसा मा
 

सा मान्यता त्वयि विभो मुचदञ्जसा मा ॥ ५४॥

 
हे विभो, यया मान्यतया अहं सामान्यवर्त्म कर्मभूतं ओजसा करणभूतेन न आ-

श्रयम् । क्रियापदमेतत् । सा मान्यता पूज्यता त्वयि विभोर्विषये मा मां कर्मभूतं मा

मुचत् । यथा त्वमेव जगदीशो मम मान्यस्तथा भूयादित्यर्थः । किंभूता मान्यता । ई-

क्षितानि सूक्तयः प्रौढोक्तय एव सामानि यया सा । कुत्र । सामात्या अमात्यैः सहिता

ये
भूपा राजानस्तेषां सदसि । पुनः कीदृशी । सामाजिकै: सभ्यैराहिता कृता नुति-

र्यस्यां सा । तथा कृतं सेर्ष्यैरपि साम यस्याः सा ॥
 

 
धारा गिरेरिव तरीव सकर्णधारा-

धारार्पणी तव दृगूषरवर्षधारा ।

धारापुरीव सुखदा दुरितासिधारा
 

धारा परार्तिहरणे हतषड़िड्विधारा ॥ ५५ ॥
 

 
हे विभो, तव दृक् अनुग्रहदृक् सुखदा भवति । किंभूता। आधारार्पणी आधार-

मर्पयति तादृशी । केव । गिरेः पर्वतस्य धारा सानुभूरिव । पुनः किंभूता । सकर्णधारा

सह कर्णधारया वर्तते या सा । कर्णान्तव्यापिनीत्यर्थः । केत्र । तरीव नौरिव । सापि सह

कर्णधारेण वर्तते या सा तादृशी भवति । 'कर्णधारस्तु नाविकः' इत्यमरः । पुनस्तव

दृक् किंभूता । ऊषरे वर्षधारा । तथा सुखदा महानन्दप्रदा । केत्र । धारापुरीव । तथा

दुरितानां प्रागर्जितानां पातकानामसिधारा खड्गधारा तथा परेषामार्तिहरणे धारा परा-

 
Digitized by Google