This page has been fully proofread once and needs a second look.

३० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 

 
हे भगवन्, तव दृक्प्रसाददृष्टिर्वारानुवारमुदयत्युल्लसति । निजभक्तजनं प्रतीत्यर्थः ।

केव । वारांनिधेः सुधेव पीयूषवृष्टिरिव । किंभूता दुर्निवारा । पुनः किंभूता । अघानां

पातकानां क्षयकृत् । केव । वाराणसीनगरीव । सापि तादृशी । तथा ध्रुव आरो गमनं

गतिर्यस्याः सा ध्रुवारा । 'ऋ गतौ' धातुः । वाराणसी पुर्यप्यवश्यगम्या । पुनः किंभूता ।

साश्ववारा पृतना सेना इव । किंभूता । उरूणि कूर्चवाराणि कवचानि यस्याः सा ।

सापि वारानुवारमुल्लसति । तथा केव । वाराङ्गनेव । सापि तादृशी भवति ॥

 
भद्राभिघे गज इवेशमक्लृप्तभद्रा

भद्रासनेऽर्चितवतः कृतभालभद्रा ।

भद्रा सिता तिथिरिवेप्सितदा विभद्रा
 

भद्रा तनुर्गुणविडम्बितरामभद्रा ॥ ११ ॥
 

 
भद्राभिधे भद्रनामनि गजे करिणीव । 'भद्रो म़न्दो मृगश्वेचेति संकीर्णश्चेति जातयः ।

करिणां-' । भद्रासने भद्रपीठे ईशं परमेश्वरमर्चितवतः पूजितवतः पुरुषस्य भद्रा कल्या

णदायिनी तनुर्मूर्तिर्विभद्रा विशेषेण भद्रा मेलापिजनमोहहरा भवति । किंभूता । अकृक्लृप्त-

भद्रा न कॢप्तानि च्छेदितानि भद्राणि यया सा । कल्याणवर्धिन्येवेत्यर्थः । कृषिधातु-

श्छेदनार्थोऽपि । पुनः कीदृशी । ईप्सितदा अभिलाषितप्रदा । केव । सिता शुक्लपक्षसं-

न्धिनी भद्रा तिथिर्द्वितीया सप्तमी द्वादशीतिथिरिव । पुनः किंभूता । गुणैविंर्विडम्बित

उपमितो रामभद्रो दाशरथिर्यया सा । पुनः किंभूता । कृता भाले ललाटे भद्रा चन्द-

नेन कृता रेखा यया सा कृतभालभद्रा । भद्रा इति देश्याम् ॥
 

 

 
नागाधमाप तव हृन्मम धीरनागा
 

नागालयं सुरपुरीव सकाञ्चनागा ।

नागात्परत्र च सृजन्त्यकदर्थना गा
 

नागाश्रितेन्द्रदिगिवोन्नतनन्दनागा ॥ १२ ॥
 

 
हे भगवन्, मम धीर्बुद्धिरगाधं तव हृत् हृदयं नाप न प्राप। किंभूता धीः । अनागाः

न विद्यमानमागोऽपराधो यस्याः सा तादृश्यपि । केव। सुरपुरीव अमरावतीव नागालयम्

यथा सुरपुरी नागालयं पातालं न प्राप्नोति । किंभूता सुरपुरी । सकाञ्चनागा सह

काश्चनागेन मेरुणा वर्तते या । सा च मम धीः अकदर्ना अनिन्द्या गाः वाचः

सृजन्ती उत्पादयन्ती परत्र परमेश्वरस्तुतिरसादन्यत्र नागात् न गता । केव ।

इन्द्रादिगिव । यथा सा परत्र (पश्चिमे) न गच्छति । । सापि किंभूता । नागाश्रिता ना-

गेन हस्तिमल्लेनाश्रिता । तथा उन्नता नन्दने नन्दनोद्याने अगा वृक्षा यस्यां सा ॥

 
सारासहापि मम धीस्त्वयि मन्दसारा

साराधना विहितमोहतमोपसारा ।
 
Digitized by Google