2023-02-23 21:28:03 by ambuda-bot
This page has not been fully proofread.
३० स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
।
हे भगवन्, तव दृक्प्रसाददृष्टिर्वारानुवारमुदयत्युल्लसति । निजभक्तजनं प्रतीत्यर्थः ।
केव । वारांनिधेः सुधेव पीयूषवृष्टिरिव । किंभूता दुर्निवारा । पुनः किंभूता । अघानां
पातकानां क्षयकृत् । केव । वाराणसीनगरीव । सापि तादृशी । तथा ध्रुव आरो गमनं
गतिर्यस्याः सा ध्रुवारा । 'ऋ गतौ' धातुः । वाराणसी पुर्यप्यवश्यगम्या । पुनः किंभूता ।
साश्ववारा पृतना सेना इव । किंभूता । उरूणि कूर्चवाराणि कवचानि यस्याः सा ।
•सापि वारानुवारमुल्लसति । तथा केव । वाराङ्गनेव । सापि तादृशी भवति ॥
भद्राभिघे गज इवेशमक्लृप्तभद्रा
भद्रासनेऽचितवतः कृतभालभद्रा ।
भद्रा सिता तिथिरिवेप्सितदा विभद्रा
भद्रा तनुर्गुणविडम्बितरामभद्रा ॥ ११ ॥
भद्राभिधे भद्रनामनि गजे करिणीव । 'भद्रो म़न्दो मृगश्वेति संकीर्णश्चेति जातयः ।
करिणां-' । भद्रासने भद्रपीठे ईशं परमेश्वरमर्चितवतः पूजितवतः पुरुषस्य भद्रा कल्या
णदायिनी तनुर्मूर्तिर्विभद्रा विशेषेण भद्रा मेलापिजनमोहहरा भवति । किंभूता । अकृप्त-
भद्रा न कॢप्तानि च्छेदितानि भद्राणि यया सा । कल्याणवर्धिन्येवेत्यर्थः । कृषिधातु-
श्छेदनार्थोऽपि । पुनः कीदृशी । ईप्सितदा अभिलाषितप्रदा । केव । सिता शुक्लपक्षसंव-
न्धिनी भद्रा तिथिद्वितीया सप्तमी द्वादशीतिथिरिव । पुनः किंभूता । गुणैविंडम्बित
उपमितो रामभद्रो दाशरथिर्यया सा । पुनः किंभूता । कृता भाले ललाटे भद्रा चन्द-
नेन कृता रेखा यया सा कृतभालभद्रा । भद्रा इति देश्याम् ॥
।
नागाधमाप तव हृन्मम धीरनागा
नागालयं सुरपुरीव सकाञ्चनागा ।
नागात्परत्र च सृजन्त्यकदर्थना गा
नागाश्रितेन्द्रदिगिवोन्नतनन्दनागा ॥ १२ ॥
हे भगवन्, मम धीर्बुद्धिरगाधं तव हृत् हृदयं नाप न प्राप। किंभूता धीः । अनागाः
न विद्यमानमागोऽपराधो यस्याः सा तादृश्यपि । केव। सुरपुरीव अमरावतीव नागालयम्
यथा सुरपुरी नागालयं पातालं न प्राप्नोति । किंभूता सुरपुरी । सकाञ्चनागा सह
काश्चनागेन मेरुणा वर्तते या । सा च मम धीः अकदर्शना अनिन्द्या गाः वाचः
सृजन्ती उत्पादयन्ती परत्र परमेश्वरस्तुतिरसादन्यत्र नागात् न गता । केव ।
इन्द्रादिगिव । यथा सा परत्र (पश्चिमे) न गच्छति । । सापि किंभूता । नागाश्रिता ना-
गेन हस्तिमल्लेनाश्रिता । तथा उन्नता नन्दने नन्दनोद्याने अगा वृक्षा यस्यां सा ॥
सारासहापि मम धीस्त्वयि मन्दसारा
साराधना विहितमोहतमोपसारा ।
Digitized by Google