This page has been fully proofread once and needs a second look.

२४
 
काव्यमाला ।
 
एकस्येति । स परमेश्वरो वो युष्माकं परं लाभं पुष्यतु । स किंभूतः । करतले आ-

मलकीफलाभं जगत्पश्यन् । स क इत्याह – यस्यैकस्याद्वितीयस्य पुरतोऽप्ग्रे विश्वप्रपञ्चः

स्फुरति । किंभूतस्य । करणेत्यादि । करणानपेक्षे कारणानपेक्षे ज्ञानक्रिये यस्य । सर्वस्य

हि ज्ञानं च क्रिया च कारणेन्द्रियायत्तम् । परमेशितुस्तु स्वतन्त्रेच्छैश्वर्यवतः सहजे एव

ज्ञानक्रिये इत्यर्थः ॥
 

 
यः कन्दुकैरिव पुरंदरपद्मसद्म-

पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः ।

खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या-

कान्तः कृतान्तदलनो लघयत्वघं वः ॥ ६ ॥
 

 
य इति । कृतान्तदलनो यमखण्डनः स हिमाद्रिकन्याकान्तः पार्वतीपतिः वो यु-

ष्माकमघं पापं लघयतु अत्यन्ततनूकरणेन निःशेषीकरोतु । इत्युपचारवक्रोक्तिः । अघं

हरतु इत्यस्य स्थाने तथोक्तेः । स क इत्याह – यः कन्दुकैरिति । पुराण्यरीणां दारयतीति

पुरंदर इन्द्रः पद्मसद्मा ब्रह्मा पद्मापतिर्विष्णुः तदादिभिर्देवैः कन्दुकैरिव खेलनार्थं तेषा-

मधःक्षेपणोर्ध्वोत्थापनकारी क्षणे बाल इव कन्दुकैर्यः अप्रमेयो ब्रह्मादिभिरप्यपरिच्छेद्यः

अलङ्घघघ्यमहिमा च खेलति । 'खिल विच्छेदे' धातुः । अनेकार्थत्वाद्धातूनां खेलति

क्रीडत इत्यर्थः ॥
 

 
सेवानमन्निखिलखेचरमौलिरत्न-

रश्मिच्छटापटलपाटलपादपीठः ।

पुण्णातु धाम कपिशीकृतशैलशृङ्ग-

त्वङ्गन्मृगाङ्मधुराकृतिरीश्वरो
 
वः ॥ ७ ॥
 

 
सेवानमदित्यादि । सेवायां नमन्तो ये निखिलखेचराः समस्तदेवा ब्रह्मादयः तेषां

यानि मौलिरत्नानि किरीटमणयः तेषां रश्मयः तेषां छटापटलेन पाटलं लोहितीकृतं

पादपीठं यस्य सः। अत एव धातुभिर्गैरिकादिभिः कपिशीकृतं यच्छैलस्य शृङ्गं तत्र त्वङ्ग-
त्रु

न्नु
ल्लसन् । त्वगिर्गत्यर्थः । यो मृगाङ्कश्चन्द्रः तस्येव मधुरा आकृतिर्यस्य स ईश्वरो वः पु-

ष्णातु । गैरिकादिकपिशीकृतगिरिशृङ्गे हिमांशुवद्रत्नप्रभारुणे पादपीठे शोभावान्भगवा-

नित्यर्थः ॥
 

 
अङ्गं भुजंगरचिताङ्गदभङ्गि तुङ्गं

त्वङ्गत्तरङ्गगगनाङ्गनसङ्गिगङ्गम् ।

बिभ्रद्विभुर्विहितरेर[^१]ङ्गद नङ्गभङ्ग-

मङ्गीकरोत्वरमभङ्गुरमिङ्गितं वः ॥ ८ ॥
 

 
[^
]. 'रिङ्गदमङ्ग' इति स्व-पाठः.
 
Digitized by Google