2023-02-23 21:27:01 by ambuda-bot
This page has not been fully proofread.
२४
काव्यमाला ।
एकस्येति । स परमेश्वरो वो युष्माकं परं लाभं पुष्यतु । स किंभूतः । करतले आ-
मलकीफलाभं जगत्पश्यन् । स क इत्याह – यस्यैकस्याद्वितीयस्य पुरतोऽप्रे विश्वप्रपञ्चः
स्फुरति । किंभूतस्य । करणेत्यादि । करणानपेक्षे कारणानपेक्षे ज्ञानक्रिये यस्य । सर्वस्य
हि ज्ञानं च क्रिया च कारणेन्द्रियायत्तम् । परमेशितुस्तु स्वतन्त्रेच्छैश्वर्यवतः सहजे एव
ज्ञानक्रिये इत्यर्थः ॥
यः कन्दुकैरिव पुरंदरपद्मसद्म-
पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः ।
खेलत्यलयमहिमा स हिमाद्रिकन्या-
कान्तः कृतान्तदलनो लघयत्वघं वः ॥ ६ ॥
य इति । कृतान्तदलनो यमखण्डनः स हिमाद्रिकन्याकान्तः पार्वतीपतिः वो यु-
ष्माकमघं पापं लघयतु अत्यन्ततनूकरणेन निःशेषीकरोतु । इत्युपचारवक्रोक्तिः । अघं
हरतु इत्यस्य स्थाने तथोक्तेः । स क इत्याह – यः कन्दुकैरिति । पुराण्यरीणां दारयतीति
पुरंदर इन्द्रः पद्मसद्मा ब्रह्मा पद्मापतिर्विष्णुः तदादिभिर्देवैः कन्दुकैरिव खेलनार्थ तेषा-
मधःक्षेपणोर्ध्वोत्थापनकारी क्षणे बाल इव कन्दुकैर्यः अप्रमेयो ब्रह्मादिभिरप्यपरिच्छेद्यः
अलङ्घघमहिमा च खेलति । 'खिल विच्छेदे' धातुः । अनेकार्थत्वाद्धातूनां खेलति
क्रीडत इत्यर्थः ॥
सेवानमन्निखिलखेचरमौलिरत्न-
रश्मिच्छटापटलपाटलपादपीठः ।
पुण्णातु धाम कपिशीकृतशैलशृङ्ग-
त्वङ्गन्मृगाङ्गमधुराकृतिरीश्वरो
वः ॥ ७ ॥
सेवानमदित्यादि । सेवायां नमन्तो ये निखिलखेचराः समस्तदेवा ब्रह्मादयः तेषां
यानि मौलिरत्नानि किरीटमणयः तेषां रश्मयः तेषां छटापटलेन पाटलं लोहितीकृतं
पादपीठं यस्य सः। अत एव धातुभिर्गैरिकादिभिः कपिशीकृतं यच्छैलस्य शृङ्गं तत्र त्वङ्ग-
त्रुल्लसन् । त्वगिर्गत्यर्थः । यो मृगाङ्कश्चन्द्रः तस्येव मधुरा आकृतिर्यस्य स ईश्वरो वः पु-
ष्णातु । गैरिकादिकपिशीकृतगिरिशृङ्गे हिमांशुवद्रत्नप्रभारुणे पादपीठे शोभावान्भगवा-
नित्यर्थः ॥
अङ्गं भुजंगरचिताङ्गदभङ्गि तुङ्गं
त्वङ्गत्तरङ्गगगनाङ्गनसङ्गिगङ्गम् ।
बिभ्रद्विभुर्विहितरेङ्गद नङ्गभङ्ग-
मङ्गीकरोत्वरमभङ्गुरमिङ्गितं वः ॥ ८ ॥
१. 'रिङ्गदमङ्ग' इति ख-पाठः.
Digitized by Google