This page has been fully proofread once and needs a second look.

३७४
 
काव्यमाला ।
 
लितः कण्टकेषु लप्नोंग्नोऽशुक्राकान्तो वस्त्रप्रान्तो यासां ताः । तथा हठात्प्रसस्ह्य वनचरैः किरा-

तैर्मृदितोऽलकानामन्तो यासां ताः ॥

 
मायार्करश्मिपटलीव मरुक्षमाया-

मायासमर्पयति मे दुरतिक्रमा या ।

मायाः पदं तव कृपात्र महातमाया-

मायात्युषेव हि कदा कलितोत्तमायाः ॥ ४८ ॥

 
अनात्मन्यपि देहादावात्मज्ञानमविद्यापर्याया माया मे मम आयासं संसृतिजमर्प-

यति । केव । मरुक्षमायां मरुभूमौ अर्कर रिमपटलीव सूर्यकिरणततिरिव । का माया ।

या दुरतिक्रमा ब्रह्माद्यैरप्यलङ्घ्या। हे दयालो, अत्रास्यां मायामय्यां महातमायां म

इत्तमस्विन्यां कदा तव दयालोः कृपा उषा इव प्रभातमिवायाति । हि निश्ये । तव

कृपा किंभूता । माया लक्ष्म्याः पदं स्थानम् । पुनः किंभूता । कलितोत्तमायाः कलितः

प्रसादीकृत उत्तमोऽयः शुभावहो विधिर्यया सा ॥
 

 
रामादिसेव्यभवभक्तिभृतोऽभिरामा-

रामाश्रितौषधिरिव क्षतदुस्तरामा ।

रामा सतीव कृतसाधुविपद्विरामा
 

रा मान्यमुज्झति न सद्म न चास्थिरा मा ॥ ४९ ॥

 
रामो रघुपतिरादौ येषां ते रामादयस्तैः सेव्यो यो भवः श्रीशिवभट्टारकस्तस्य भक्ति

बिभर्तीति रामादिसेव्यभवभक्तिभृत् तस्य श्रीशिवैकतानस्य धन्यस्य पुंसः सद्म गृहं राः

धनं कर्तृ न उज्झति । राः मान्यं इति पदच्छेदः । तथा श्रीशिवभक्तस्य सद्म मा ल

क्ष्मीर्मोक्षलक्ष्मीश्च नोज्झति । मा कीदृशी । न अस्थिरा । स्थिरैवेत्यर्थः । द्वौ नत्रौञो प्र-

कृतमेवार्थं सूचयतः । अत्र 'राया धनेन मान्यमिति सद्मविशेषणं यदन्यैष्टीकाकारै-

र्व्याख्यातं तच्चिन्त्यम् । रैमान्यमिति भवेत् । न चास्थिरेत्यत्र चकारस्य वैयर्थ्यं

स्यात् । तस्मादस्मत्कृतैव व्याख्या श्रेयसी । मा लक्ष्मीः किंभूता । अभिरामा । पुनः की-

दृशी । क्षतो दुस्तरो दुरुत्तरोऽमो रोगो भवरोगो यया सा । केव । ओषधिरिव । किंभूता

ओषधिः । आराममाश्रिता । सापि क्षतदुस्तरामा भवति । पुनः किंभूता । कृतः साधूनां

विपद्विरामो यया सा । केव । सती पतिव्रता रामेव । सापि सद्म नोज्झति ॥

 
वारांनिधेरिव सुधा तव दुर्निवारा
 

वाराणसीव दृगघक्षयकृद्धुध्रुवारा ।

वाराङ्गनेव पृतनेव च साश्ववारा

वारानुवारमुदयत्युरुकूर्चवारा ॥ ५० ॥
 
Digitized by Google