This page has not been fully proofread.

३७४
 
काव्यमाला ।
 
लितः कण्टकेषु लप्नोंऽशुक्रान्तो वस्त्रप्रान्तो यासां ताः । तथा हठात्प्रसस्य वनचरैः किरा-
तैर्मृदितोऽलकानामन्तो यासां ताः ॥
मायार्करश्मिपटलीव मरुक्षमाया-
मायासमर्पयति मे दुरतिक्रमा या ।
मायाः पदं तव कृपात्र महातमाया-
मायात्युषेव हि कदा कलितोत्तमायाः ॥ ४८ ॥
अनात्मन्यपि देहादावात्मज्ञानमविद्यापर्याया माया मे मम आयासं संसृतिजमर्प-
यति । केव । मरुक्षमायां मरुभूमौ अर्कर रिमपटलीव सूर्यकिरणततिरिव । का माया ।
या दुरतिक्रमा ब्रह्माद्यैरप्यलङ्घया। हे दयालो, अत्रास्यां मायामय्यां महातमायां म
इत्तमस्विन्यां कदा तव दयालोः कृपा उषा इव प्रभातमिवायाति । हि निश्रये । तव
कृपा किंभूता । माया लक्ष्म्याः पदं स्थानम् । पुनः किंभूता । कलितोत्तमायाः कलितः
प्रसादीकृत उत्तमोऽयः शुभावहो विधिर्यया सा ॥
 
रामादिसेव्यभवभक्तिभृतोऽभिरामा-
रामाश्रितौषधिरिव क्षतदुस्तरामा ।
रामा सतीव कृतसाधुविपद्विरामा
 
रा मान्यमुज्झति न सद्म न चास्थिरा मा ॥ ४९ ॥
रामो रघुपतिरादौ येषां ते रामादयस्तैः सेव्यो यो भवः श्रीशिवभट्टारकस्तस्य भक्ति
बिभर्तीति रामादिसेव्यभवभक्तिभृत् तस्य श्रीशिवैकतानस्य धन्यस्य पुंसः सद्म गृहं राः
धनं कर्तृ न उज्झति । राः मान्यं इति पदच्छेदः । तथा श्रीशिवभक्तस्य सद्म मा ल
क्ष्मीर्मोक्षलक्ष्मीश्च नोज्झति । मा कीदृशी । न अस्थिरा । स्थिरैवेत्यर्थः । द्वौ नत्रौ प्र-
कृतमेवार्थ सूचयतः । अत्र 'राया धनेन मान्यमिति सद्मविशेषणं यदन्यैष्टीकाकारै-
र्व्याख्यातं तच्चिन्त्यम् । रैमान्यमिति भवेत् । न चास्थिरेत्यत्र चकारस्य वैयर्थ्य च
स्यात् । तस्मादस्मत्कृतैव व्याख्या श्रेयसी । मा लक्ष्मीः किंभूता । अभिरामा । पुनः की-
दृशी । क्षतो दुस्तरो दुरुत्तरोऽमो रोगो भवरोगो यया सा । केव । ओषधिरिव । किंभूता
ओषधिः । आराममाश्रिता । सापि क्षतदुस्तरामा भवति । पुनः किंभूता । कृतः साधूनां
विपद्विरामो यया सा । केव । सती पतिव्रता रामेव । सापि सद्म नोज्झति ॥
वारांनिधेरिव सुधा तव दुर्निवारा
 
वाराणसीव हगघक्षयकृद्धुवारा ।
वाराङ्गनेव पृतनेव च साश्ववारा
वारानुवारमुदयत्युरुकूर्चवारा ॥ ५० ॥
 
Digitized by Google