This page has been fully proofread once and needs a second look.

३० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
कारागृहेऽत्र भवनामनि मोचिका रा

काराजखण्डशिखर क्षपितान्धकारा ॥ ४५ ॥
 

 
हे राकाराजखण्डशिखर । राकाराजश्चन्द्रस्तस्य खण्ड: शिखरे मौलौ यस्य स तस्य

संबोधनम् । अत्र भवनामनि संसाराख्ये कारागृहे बन्धनागारे तव विभोः कृपां विना

का मोचिका भवति । न कापि मुक्तिदायिनीत्यर्थः । का कीदृशी । रामणीयकत्वेन

रम्यत्वेन कृत इन्दुकराणां चन्द्रकिरणानामनुकारो येन स तथाविध आकारो यस्याः

सा रामणीयककृतेन्दुकरानुकाराकारा । पुनः किंभूता । प्रथितोपकारा प्रथित उप-

कारो यस्याः सा । पुनः किंभूता । क्षपितान्धकारा क्षपितोऽन्धकारो मोहतमोरूपो
 

यया सा ॥
 

 
काशान्तचित्तधृतमुक्तिपथावकाशा-

काशान्तवर्तिरविवत्प्रचुरप्रकाशा ।

काशावकीर्णखिलतुल्यकृतान्तकाशा
 

का शाम्भवीं दृशमृते भृतसेवकाशा ॥ ४६ ॥
 

 
का कत्रीं भृतसेवकाशा भृता पूरिता सेवकानां शिवैकतानानामाशा अभिलाषो

यया सा तादृशी भवति । कामृते । शांभवीं शंभुसंबन्धिनीं दृशं कृपादृष्टिं विना । का

कीदृशी । का ईषत् शान्तं चित्तं मनो येषां ते काशान्तचित्ता तैर्वृधृतो मुक्तिपथस्याव-

काशो यया सा । पुनः किंभूता । प्रचुरः प्रकाशो यस्याः सा । किंवत् । आकाशान्तव-

र्
तिरविवत् आकाशस्य नभसोऽन्ते वर्तते तादृशो यो रविः सूर्यस्तद्वत् । पुनः किंभूता ।

काशैस्तृणविशेषैरवकीर्णं च तत्खिलमनाहतमरण्यं तेन तुल्या कृता अन्तकाशा यमदि-

ग्यया सा । यथारण्ये कञ्चिन्न प्रविशति तथा भगवद्दृक्पातेनान्तकदिशि न कोऽपीत्यर्थः ।

'द्वे खिलाप्रहते समे' इत्यमरः ॥
 

 
कां तापतान्तिमुपयान्ति शुचौ न कान्ताः

कान्तावलम्बितकराः स्खलितांशुकान्ताः ।

कान्ता हठाद्वनचरैर्मृदितालकान्ता
 

कान्तारगास्त्वदनुरक्तनृपारिकान्ताः ॥ ४७ ॥
 

 
हे भगवान्, त्वदनुरक्तनृपारिकान्ता त्वयि विभावनुरक्ता वाङ्मनः कर्मभिस्त्वद्भावना-

सक्ता ये नृपा राजानस्तेषां ये अरयः शत्रवस्तेषां कान्ता अङ्गनास्तापेन तान्तिर्ग्ला-

निस्तापतान्तिः कां न तापतान्तिमुपयान्ति गच्छन्ति । कस्मिन् । शुचौ निदाघे ।

किंभूता । कान्तारगाः । 'कान्तारं दूरशून्योऽध्वा' इत्यमरः । कान्तारं मरुभूमिं गच्छ-

न्तीति तादृश्यः । पुनः किंभूताः । कान्ता रमणीयाः । पुनः किंभूताः । कान्ता अभि-

लषिताः । पुनः किंभूताः । कान्तैः पतिभिरवलम्बिताः करा यासां ताः । तथा स्ख-
Digitized by Google