This page has been fully proofread once and needs a second look.

*
 
३७२
 
काव्यमाला ।
 
जनेषु हि यस्मात्कारणात् नातेंतिं न सहते। श्रीशंभुभक्तोऽन्यजनेषु नम्रां निजकंधरां न

सहते इत्यर्थः । 'पश्ञ्चाशीद्भीवाशिरा मन्या' इत्यमरः ॥

 
मानारतं निजपरैरुपभुज्यमाना
 

मानातिवृत्तविभवान्वहमेधमाना ।

मा नाथ भूद्भवतु धीरभिनन्द्यमाना
 

[^१]
मानालसैः सुहृदरातिषु मे समाना ॥ ४३ ॥
 

 
अत्र मा इति, अनारतं इति पदच्छेदः । हे नाथ त्रिलोकनाथ, मानं पूज्यतामति-

वृत्तोऽतिक्रान्तो विभवो यस्याः सा । तथा अन्वहं प्रतिदिनं एधमाना वर्धमाना ।

अनारतं सततं निजाश्च पराश्च तैरुपभुज्यमाना मा लक्ष्मीर्मा भूत् । इदं तु मे-

ऽभिमत मित्याह — भवत्वित्यादि । मानेनालसा मानालसा मानिनो जनास्तैरभिनन्द्य

माना मे मम धीर्बुद्धिः सुहृदरातिषु मित्ररिपुषु समाना सदृशी भवतु । तथा चोक्तं श्री-

भर्तृहरिणा – 'अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्टे वा बलवति

रिपौ वा सुहृदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः कदारण्ये पुण्ये

शिवशिवशिवेति प्रलपतः ॥' इति ॥
 

 
दोषारयस्तरलयन्ति महामदोषा
 

दोषा धृतिं हरति मोहमयप्रदोषा ।

दोषाकराङ्कवपुरेष्यति मां कदोषा

दोषात्तकण्ठमनिरुद्धमिवोन्मदोषा ॥ ४४ ॥
 

 
हे विभो, महामदोषा महान्मदस्योषो दाहो येषां ते तादृशा दोषाः कामक्रोधाद्या

एवारयः शत्रवो मां तरलयन्ति कम्पयन्ति । तथा मोहमयप्रदोषा मोहमयोऽज्ञानमयः

प्रदोषो रजनीमुखं प्रकृष्टश्च दोषो यस्याः सा दोषा रात्रिमें वृतिर्मे धृतिं हरति । अज्ञानरूपर-

जनीमुख इत्यर्थः । दोषाकरश्चन्द्रोऽङ्को मौलिस्थं लक्ष्म यस्य स दोषाकराङ्कः श्रीशंभुः स

एव वपुर्यस्याः सा दोषाकराङ्कवपुः । चन्द्रमौलिरूपेत्यर्थः । ईदृशी उषा प्रभातं कदा मामे-
ध्

ष्
यति । श्रीचन्द्रमौलिदर्शनरूपं प्रभातं कदा मे भविष्यतीत्यर्थः । उषा प्रभातं केव ।

उषा बाणासुरदुहितेव । यथा बाणासुरतनया उषा अनिरुद्धं प्रद्युम्नतनयमेति । अनिरुद्धं

किंभूतम् । दोषात्तकण्ठं दोषा भुजेन आत्तो गृहीतः कण्ठो यस्य स तादृशम् । दोष्-

शब्दो भुजवाचकः । 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । उषा कीदृशी । उन्मदा मदना-

वेशेनोस्त्कटमदा ॥
 

 
का रामणीयककृतेन्दुकरानुकारा-

कारा विना तव कृपां प्रथितोपकारा ।
 

 
[^
]. 'मानामलैः' ख.
 
Digitized by Google