This page has not been fully proofread.

*
 
३७२
 
काव्यमाला ।
 
जनेषु हि यस्मात्कारणात् नातें न सहते। श्रीशंभुभक्तोऽन्यजनेषु नम्रां निजकंधरां न
सहते इत्यर्थः । 'पश्चाशीवाशिरा मन्या' इत्यमरः ॥
मानारतं निजपरैरुपभुज्यमाना
 
मानातिवृत्तविभवान्वहमेधमाना ।
मा नाथ भूद्भवतु धीरभिनन्द्यमाना
 
मानालसैः सुहृदरातिषु मे समाना ॥ ४३ ॥
 
अत्र मा इति, अनारतं इति पदच्छेदः । हे नाथ त्रिलोकनाथ, मानं पूज्यतामति-
वृत्तोऽतिक्रान्तो विभवो यस्याः सा । तथा अन्वहं प्रतिदिनं एधमाना वर्धमाना ।
अनारतं सततं निजाश्च पराश्च तैरुपभुज्यमाना मा लक्ष्मीर्मा भूत् । इदं तु मे-
ऽभिमत मित्याह — भवत्वित्यादि । मानेनालसा मानालसा मानिनो जनास्तैरभिनन्द्य
माना मे मम धीर्बुद्धिः सुहृदरातिषु मित्ररिपुषु समाना सदृशी भवतु । तथा चोक्तं श्री-
भर्तृहरिणा – 'अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्टे वा बलवति
रिपौ वा सुहृदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः कदारण्ये पुण्ये
शिवशिवशिवेति प्रलपतः ॥' इति ॥
 
दोषारयस्तरलयन्ति महामदोषा
 
दोषा धृतिं हरति मोहमयप्रदोषा ।
दोषाकराङ्कवपुरेष्यति मां कदोषा
दोषात्तकण्ठमनिरुद्धमिवोन्मदोषा ॥ ४४ ॥
 
हे विभो, महामदोषा महान्मदस्योषो दाहो येषां ते तादृशा दोषाः कामक्रोधाद्या
एवारयः शत्रवो मां तरलयन्ति कम्पयन्ति । तथा मोहमयप्रदोषा मोहमयोऽज्ञानमयः
प्रदोषो रजनीमुखं प्रकृष्टश्च दोषो यस्याः सा दोषा रात्रिमें वृति हरति । अज्ञानरूपर-
जनीमुख इत्यर्थः । दोषाकरश्चन्द्रोऽको मौलिस्थं लक्ष्म यस्य स दोषाकराङ्कः श्रीशंभुः स
एव वपुर्यस्याः सा दोषाकराङ्कवपुः । चन्द्रमौलिरूपेत्यर्थः । ईदृशी उषा प्रभातं कदा मामे-
ध्यति । श्रीचन्द्रमौलिदर्शनरूपं प्रभातं कदा मे भविष्यतीत्यर्थः । उषा प्रभातं केव ।
उषा बाणासुरदुहितेव । यथा बाणासुरतनया उषा अनिरुद्धं प्रद्युम्नतनयमेति । अनिरुद्धं
किंभूतम् । दोषात्तकण्ठं दोषा भुजेन आत्तो गृहीतः कण्ठो यस्य स तादृशम् । दोष्-
शब्दो भुजवाचकः । 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । उषा कीदृशी । उन्मदा मदना-
वेशेनोस्कटमदा ॥
 
का रामणीयककृतेन्दुकरानुकारा-
कारा विना तव कृपां प्रथितोपकारा ।
 
१. 'मानामलैः' ख.
 
Digitized by Google