This page has been fully proofread once and needs a second look.

३० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
३७१
 
ऽज्ञानान्धकारं तस्य दमन उपशामक, अनेकं बहुविधं अशङ्कं कृत्वा रचितं कृतं तथा

अशं अविद्यमानं कल्याणं यस्य तत्तादृशं तथा सविकासैः सविस्तारैर्विकारैराधिव्या-

धिप्रियवियोगादिभिरवस्थापरिणामैश्चितं व्याप्तम् । कृतपरिचयमिति यावत् । तथा मे-

दुरितं अन्यजनाप्ग्रे ख्यापनानुतापप्रायश्चित्ताद्य करणात्सान्द्रीभूतं वर्धितं इदं स्वयमनुभूय-

मानं दुरितं पापं वाङ्मनःकायोत्थं त्रिविधं हर निवारय ॥
 

 
कृपणं भगवन्बहुशोऽभिहितं बहुशोभि हितं दिश मे वचनम् ।
 

दिशमेव च नन्दितमानस तां दितमान सतां न पतामि यतः ॥ ४१ ॥
 

 
अत्र कृपणं इति, भगवन् इति, बहुश इति, अभिहितं इति, बहुशोभि इति, हि-

तम् इति, दिश इति, मे इति, वचनम् इति, दिशं इति, एव इति, च इति, नन्दित-

मानस इति, तामिति, दितमान इति, सतां इति, न इति, पतामि इति, यतः इति प
-
दच्छेदः । हे भगवन्दयालो, मया वराकेण बहुशोऽनेकशः कृपणं कृपोत्पादकं दीनवच-

नमभिहितमुक्तं भूरीन्वारान्प्रलपितम् । अतस्त्वं मे वचनं दिश अभिमतवराभयार्पण-

प्रथनं वाक्यं देहि । किंभूतम् । बहु चिरं शोभते तच्छीलं बहुशोभि । तथा हितमु-

पकारकम् । हे सतामुत्तमानां नन्दितमानस नन्दितं ह्लादितं मानसं चित्तं येन स तस्य

संबोधनम् । तथा हे दितमान । 'दो अवखण्डने' धातुः । दितः खण्डितो मानोऽहं-

कारो मदोद्धतानां येन स तस्य संबोधनम् । त्वं तां दिशमेव तं प्रकारमेव दिश देहि ।

तां दिशं कामित्याह – यतो हेतोरस्मिन्संसारसंकटे न पतामि । तमेव प्रकारं संदर्श-

येत्यर्थः ॥
 

 
मन्यामहे गतिमृते त्वयि भक्तिमन्या-

मन्यायगां तव दृशैव तं[^१]तमः शमन्या ।

मन्याभिधाभृति नातंनतिं सहते धमन्या-
मै

[^२]म
न्याभिधेषु नहि धीरभिमानिमन्या ॥ ४२ ॥
 
>
 

 
अत्र मन्यामहे इति, गतितिं इति, ऋते इति, त्वयि इति भक्तितिं इति, अन्यां इति,

अन्यायगां इति, तव इति, दृशा इति, एव इति, तमःशमन्या इति, मन्याभिधाभृति

इति, नतिं इति, सहते इति, धमन्यां इति, अन्याभिधेषु इति, न इति, हि इति, धीः

इति, अभिमानिमन्या इति पदच्छेदः । हे विभो, तमोऽज्ञानरूपमन्धकारं शमयतीति

तादृश्या तमःशमन्या तव स्वामिनो दृशा एव अनुग्रहदृष्टपैत्रटैव त्वयि विषये भक्तिमृते

विना अन्यां गतिमन्यापगामनौचित्येन प्रवृत्तामेव वयं मन्यामहे । यतो हेतोरभिमा-

निमन्या अभिमानिनमात्मानं मन्यते तादृशी धीर्बुद्धिः मन्या इत्यभिधां नाम बिभर्तीति
मन्याभिघा

मन्याभिधा
भृत् तस्यां मन्याभिधाभृति धमन्यां कंधरायां अन्याभिधेषु अन्यनामसु
 

 
[^
]. 'मनः' क.
[^
]. 'अन्याधिपेषु' ख.
 
Digitized by Google