2023-02-23 21:28:01 by ambuda-bot
This page has not been fully proofread.
३७०
काव्यमाला ।
अलं घना अलङ्घनास्तपस्यतस्तपस्यतः ।
तनुर्हि मेऽतनुर्हिमेऽङ्गतानवं गता नवम् ॥ ३८ ॥
अलं इति, घना इति, अलङ्घना इति, तपसि इति, अत इति, तपस्यतः इति, तनुः
इति, हि इति मे इति, अतनुः इति हिमे इति, अङ्गतानवं इति, गता इति, नवम्
इति पदच्छेदः । हि यस्मात् हे भगवन्, तपसि माघे अलमत्यर्थे घना मेघा अलङ्घना
लयितुमतिवाहयितुम शक्याः । अतोऽस्माद्धेतोस्तपसि माघे हिमे शीतकाले तपस्यत-
स्तपः कुर्वतः शीते यथोचितव्रतचर्यापरस्य मम अतनुरकृशापि तनुर्मूर्तिर्नवमपूर्वमङ्गता-
नवमवयवकृशत्वं गता प्राप्ता । अतस्त्वदाराधनव्रतकृशतरवपुषोऽपि ममोपरि अवले-
पपरो मा भूरिति स्वामिने आर्तिर्निवेदिता ॥
मलमलक्षवलक्षबलस्मरस्मरणकारणकार कदङ्कदम् ।
हर हरस्व भजस्व भजन्दिशं दिश विभासविभासदृशं दृशम् ॥ ३९ ॥
अत्र मलं इति, अलक्षवलक्षबलस्मर स्मरणकारणकार इति, कदङ्कदम् इति, हर इति,
हरस्व इति, भजस्व इति, भजन् इति, दिशं इति, दिश इति, विभासविभासदृशं इति, दृशम्
इति पदच्छेदः । हे हर संसारिणां भवामय हर तथा लक्षणं लक्षः अविद्यमानो ल
क्षो लक्षणमियत्तया परिच्छेदो यस्य तत् अलक्षं वलक्षमवदातं बलं सामर्थ्य यस्य ई-
दृशो यः स्मरः कामस्तस्य स्मरणकारणं स्मृतिशेषतानिमित्तमर्थाद्देहदाहं कृतवान् य
स्तस्य संबोधनं हे अलक्षवलक्षबलस्मरस्मरणकारणकार, त्वं मम मलं त्रिविधमाण-
वमाययकार्मभेदा त्रिविधमावरणं हरस्व दूरीकुरु । 'गोपितस्वमहिम्नोऽस्य संमोहाद्वि-
स्मृतात्मनः । यः संकोचः स एवाय आणवो मल उच्यते ॥ ततः षटुचुकव्याप्तिविलो-
पितनिजस्थिते: । भूतदेहे स्थितिर्यासौ मायीयो मल उच्यते ॥ यदन्तःकरणाधीनबु-
द्धिकर्मेन्द्रियादिभिः । बहिर्व्याप्रियते कार्ममलमेतदुदाहृतम् ॥' इत्यागमविदः । मलं
किंभूतम् । कदङ्कदं कुत्सितश्वासावको लक्षणं कदङ्कः कदङ्कं कुलक्षणं ददातीति कदङ्क-
दस्तादृशम् । त्वं किं कुर्वन् । दिशं ऐशानीं भजन् प्रपन्नजनानुजिघृक्षया विश्वमयोऽपि
नियतां दिशमाश्रयन् । किंच, हे विभो, त्वं दृशं दिश दृष्टि देहि । किंभूताम् । विभा
सविभासदृशं भासनं भासः विशिष्टो भासो विभासः सर्वातिशायि विज्ञानं विभा दी-
प्तिश्च ते विभासविभे तयोः सदृशीम् । समगुणामिति यावत् ॥
भवसंभवसंहतमोहतमोदमनेदमनेकमशङ्कमशम् ।
सविकासविकारचितं रचितं हर मे हर मेदुरितं दुरितम् ॥ ४० ॥
अत्र भवसंभवसंहतमोहतमोदमन इति, इदं इति, अनेकं इति, अशङ्कं इति, अशम्
इति, सविकासविकारचितं इति, रचितं इति, हर इति, मे इति, हर इति, मेदुरितं
इति, दुरितं इति पदच्छेदः । हे हर महाप्रलयेषु ब्रह्मादिकारणसंहारक तथा
हे भवसंभवसंहतमोहतमोदमन भवसंभवं संसारसमुद्भूतं संहतं पुञ्जीकृतं यन्मोहतमो-
Diptaed by. Google