This page has not been fully proofread.

३० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
स्तवाः स्तुतिरूपास्तव न आहिता न विहिताः । अपि तु सर्वजनेन । इयं शुभा क
ल्याणकारिणी मे भारती वाणी आशु निर्विलम्बमेव आपदा भवरोगापदा बलमुत्कर्ष-
मापत् प्राप्तवती । महापत्पतितस्य वराकस्य मे इयमाक्रन्दितवाणी इतरमहाकविस्तुति-
कथाभ्योऽधिकं त्वदाराधनायालमिति यावत् ॥
 
नतानतानवानवारितारितापदं पदम् ।
 
हराहरामि तेऽमिते शमे शमेवमेव मे ॥ ३५ ॥
 
>
 
नतान् इति अतानवान् इति, अवारितारितापदं इति पदं इति, हर इति, आह-
रामि इति, ते इति, अमिते इति, शमे इति, शं इति, एवमेव इति मे इति पदच्छेदः ।
हे हर आश्रितजनभवामयहर, तनोर्भावस्तानवं न विद्यमानं तानवं येषां ते अतानवा-
स्तादृशान् । अनल्पानिति यावत् । नतान् भक्तिप्रहान् ते तव पदं त्वदीयं धाम आ
हरामि । भवत्प्रसादप्राप्तोपदेशयुक्त्या प्रापयामीत्यर्थः । पदं किंभूतम् । अवारितारितापदं
अवारिता अनियन्त्रिता येऽरय आन्तराः षट् कामक्रोधाद्यास्तेषां तापं दूरीकरणं द-
दाति तादृशम् । कस्मिन्सति । अमिते अनल्पे शमे संयमे सति । एवमेव प्रजनानां त्व-
द्धामप्राप्तिनिमित्तभवत्स्तुत्यवबोधरूपं मे मम शं कल्याणमुभयलोकशुभावहमित्यर्थः ॥
परापराधबान्धवाः सवासवाः सुरासुराः ।
 
सदा सदानमानमाश्रयं श्रयन्ति यन्ति यम् ॥ ३६॥
समा समाहितं हितं बतावतादमन्दमम् ।
 
कलङ्कलङ्घने घने ह्यबाह्यवासनः स नः ॥ ३७ ॥ (युगलकम् )
 
>
 
परापराधबान्धवाः इति, सवासवाः इति, सुरासुरा इति, सदा इति, सदानमानं
इति, आश्रयं इति, श्रयन्ति इति, यन्ति इति, यम् इति, स इति, मा इति, समाहितं
इति, हितं इति, बतः इति, अवतात् इति अमन्दमम् इति, कलङ्कलङ्घने
इति, घने इति, हि इति, अबाह्यवासन इति, स इति नः इति पदच्छेदः । बत आ.
श्चर्ये । स समाहितं समाधिनिष्ठं भक्तं मा मां वराकमवताद्रक्षतु । 'अव रक्षणे' धातुः ।
मा किंभूतम् । अमन्दमम् अमन्दा अनल्पा मा लक्ष्मीर्मोक्षलक्ष्मीर्यस्य स तादृशम् । सक
इत्याह –परापरा इति । परापराधबान्धवाः परेषामपराधेऽपि बान्धवा बन्धुभूताः ।
कृतापकाराणामप्युपकारिण इत्यर्थः । एवंभूताः सवासवाः सह वासवेनेन्द्रेण वर्तन्ते ये
तादृशाः सुरासुरा देवासुराः सदा नित्यं यं परमेश्वरमाश्रयं श्रयन्ति अभिलषन्ति । क
थम् । सदानमानं सहदानेन श्रीशिवार्पणेन मानेन पूजया च सदानमानम् । तथा यं
विभुं यन्ति गच्छन्ति शरणार्थम् । कुतस्तदित्याह— घने बहले कलङ्कलङ्घने मलापस-
रणे अबाह्यवासनो भवति । अवाया अबहिरङ्गा वासना इच्छा यस्य स तथोक्तः ।
केषां कलङ्कलङ्घने । नः अस्माकम् । हि निश्चये ॥ युगलकम् ॥
 
१. 'बन्धवः' ख.
 
Digitized by Google