2023-02-23 21:28:01 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
घनाघनाशनैः शनैनवैर्नवैरिहा रिहा ।
भवान्भवान्वहं वहन्नहीनहीनदानदाः ॥ ३१ ॥
दयोदयोर्जितोऽर्जितो मयोमयोचितश्चितः ।
यतेयते हितेहिते रवैरवैरधीरधीः ॥ ३२ ॥ (युगलकम् )
>
>
>
अत्र घनाघनाशनैः इति शनैः इति, नवैः इति, नवैः इति, इह इति, अरिहा
इति, भवान् इति, भव इति, अन्वहं इति, वहन् इति, अहीन् इति, अहीनदानदाः
इति, दयोदयोजितः इति अर्जितः इति मया इति, उमया इति, उचितः इति,
चितः इति, यतेय इति, ते इति, हितेहिते इति, रवैः इति, अवैरधीरधीः इति पद-
च्छेदः । हे भव शंभो, मया कर्त्रा इह संसारे घनाघनाशनैः घनानि बहलानि
यान्यघानि पापानि तानि नाशयन्तीति तादृशैः नवैर्नूतनैः नवैः स्तवैः शनैर्मृदुनो-
पायेन । प्रसह्य झगिति यावत् । भवान्विभुः अरिहा कामक्रोधाद्यान्तररिपुहा अ
जितः स्वीकृतः । भवान्कि कुर्वन् । अन्वहं प्रतिदिनमहीन्सर्पान् वासुक्रिप्रभृतीन् व
हन्धारयन् । पुनः किंभूतः । अहीनदानदाः ददातीति दाः अहीनदाने अखण्डितदाने
दाः दाता । पुनः किंभूतः । दयोदयेन करुणोदयेनोर्जित उदारो यः स दयोदयोर्जितः ।
पुनः किंभूतः । उमया पार्वत्या चितो युक्तः । तथा उचितो योग्यश्च । हे भगवन्, ते
तव हितेहिते हितं च तदीहितं भवदभिमतपरिचर्या प्रयोजनं तत्र अहं यतेय प्रयत्नपरो
भवेयम् । यतेय इति क्रियापदम् । कैः । रवैः स्तुतिशब्दैर्मुखवाद्यरवैर्वा । अहं कीदृशः ।
अवैरा रिपुष्वप्यविरुद्धा धीरा धीर्मतिर्यस्य स तादृशः ॥ युग्मम् ॥
तवात्तबाधने धने गदं गदन्ति केऽन्तिके ।
मयामयाविना विना विभो विभोजना जनाः ॥ ३३ ॥
हे विभो हे शंभो, आत्तं प्राप्तं बाधनं विनाशो येन तत्तादृशे आत्तबाधने घने आ.
न्तरे घने संविद्रूपे बाह्ये वा धने हिरण्यादौ प्राप्तविनाशे सात तव दयालोरन्तिके मया
आमयाविना भवमहारोगप्रस्तेन शारीररोगप्रस्तेन वा विना के जना गदं रोगं गदन्ति
निवेदयन्ति प्रभोर । विभोजना निरशना वा के जनाः । मां विधिहतं विना त्वदन्ति-
कगता निर्धना निरशनाः के निजरुजमावेदयन्ति । न केचित् । किं त्वमेव केवल
इति भवता दयालुना नात्रोपेक्षितं युक्तमिति भावः ॥
स्तवास्तवाहिता हिता न केन केवलं बलम् ।
शुभाशु भारती रतीशनाशनापदापदा ॥ ३४ ॥
स्तवा इति, तव इति, आहिताः इति हिताः इति, न इति, केन इति, केवलं इति,
बलं इति, शुभा इति, आशु इति, भारती इति, रतीशनाशन इति, आपत् इति, आ.
पदा इति पदच्छेदः । हे रतीशनाशन कामान्तकारिन्, केन भक्तजनेन हिता हृयाः
Digitized by Google