This page has been fully proofread once and needs a second look.

३० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
>
 
अयमात् इति, अयं इति, आश्रितः इति ,त्रसति इति, शंसति इति, शंसति इति, शं
इति

इति ,
च इति, यः इति, धृतमुदं इति, तं इति, उदन्तं इति, उदश्ञ्चय इति पदच्छेदः ।

हे धृतिप्रद भीरूणां धैर्यार्पण, त्वं धृतमुदं दृढीकृतानन्दं तमुदन्तं वृत्तान्तमुदञ्चय प्रक-

टय । तं कमित्याह —अनयत इत्यादि । यतो यस्मादुदन्ता द्वृत्तादनयतो दुर्नयाद्धेतो-

र्नयतोऽप्राप्तकालानपि कुहेवाकतो हरतः अयमात्संयमरहितात् यमात्कृतान्तादयं मल्ल-

क्षण आश्रितः शरणागतो न त्रसति न बिभेति । तमेव वृत्तान्तं प्रकटीकुर्वित्यर्थः । पु

नश्च तमुदन्तं कम् । शंसति स्तुवति जने यश्च शं निश्रेयसं शंसति सूचयति । शंसतीति

सप्तम्येकवचनम् । अकालमृत्युशमनं निःश्रेयसप्राप्तिनिमित्तं तं वृत्तान्तं प्रकटयेत्यर्थः ॥
 

 
शुभवता भवता भवतारिणा शकलिता कलिता कलितापभूः ।
 

हर कृतान्तकृतान्तकृतान्तनो किममता ममता मम तादृशी ॥ २९ ॥
 

 
अत्र शुभवता इति, भवता इति, भवतारिणा इति, शकलिता इति, अकलिता

इति, कलितापभूः इति, हर इति, कृतान्तकृतान्तकृतान्त इति, नो इति, किं इति,
अमता इति, ममता इति, मम इति

अमता इति, ममता इति, मम इति,
तादृशी इति, पदच्छेदः । हे हर भवामयहर ।

तथा कृतान्तस्य यमस्य यः कृतान्तो बलादनन्तजन्तुहरणहेवाकरूपः सिद्धान्तो निश्चय-

स्तस्य कृतोऽन्तोऽवसानं येन स कृतान्तकृतान्तकृतान्तस्तस्य संबोधनं हे कृतान्तकृता-

न्तकृतान्त, शुभवता प्रशस्तकल्याणप्रदेन तथा भवात्संसारात्तारयतीति तेन भवतारिणा

संसारसागरोत्तारकेण भवता स्वामिना मम आश्रितस्य अमतानभिप्रेता ममता । ममेद-

मिति भावो ममता । पुत्रदारधनादिषु ममेति भावः । मम तादृशी अतिप्रसिद्धा किकिं नो

शकलिता खण्डिता । ममता किंभूता । अकलिता अगणिता। असंख्येत्यर्थः । पुनः किं

भूता । कलितापभूः कलिकालनिमित्तस्य त्रिविधस्य तापस्य भूः प्रसूतिः ॥
 

 
विशदशोभयशोभय शोभय त्रिजगदक्षमदक्षमदक्षम ।
 

स्वपदमानय मानय मा नयक्षतसमक्षयमक्षयमक्षय ॥ ३० ॥
 
>
 

 
अत्र विशदशोभयशोभय इति, शोभय इति, त्रिजगत् इति अक्षमदक्षमदक्षम इति,
, अक्षमदक्षमदक्षम इति,
स्वपदं इति, आनय इति, मानय इति, मा इति, नयक्षतसमक्षयमक्षयं इति, अक्षय इति

पदच्छेदः, हे विशदशोभयशोभय । विशदा निर्मला शोभा यस्य तत्तादृशं यशो यस्य ई-

दृशमभयमभयदानं यस्य तस्य संबोधनम् । हे अक्षमदक्षमदक्षम । अक्षमः क्षान्तिर
-
हितो यो दक्षो दक्षमुनिस्तस्य मदं गर्वं क्षमते यस्तस्य संबोधनम् । तथा हे अक्षय अ

निधन भगवन्, मा मां कर्मभूतं स्वपदमानय निजं पदं प्रापय । अत एव मानय । मां

संमानभाजनं संपादयेत्यर्थः । स्वपदं किंभूतम् । नयक्षतसमक्ष यमक्षयं नयेन दुष्टदमनप्रव-

णया नीत्या क्षतो बाधितः क्षयं प्रापितो वा समक्षं सर्वलोकप्रत्यक्षमेव यमक्षयः कृतान्त-

निवासो येन तादृशम् ॥
 
Digitized by Google