This page has been fully proofread once and needs a second look.

२६६
 
काव्यमाला ।
 
समुद्रस्य तनया । वै निश्चये। कं पुरुषमलाघवं लघुत्वविहीनं चकार । अपि तु सर्वे
लघु
वं
लघू
कृतवतीत्यर्थः । कया । मदनवादनेत्यादि । मदनस्य कामस्य वादः कामकलहस्तथा

'नवं नूतनं च तत् अदनं भोजनं तयोर्विषये या वासना इच्छा तथाया यतनं प्रयत्नस्तेन

हेतुना या यातना तीव्रवेदना तथा हेतुभूतया कामकलहभोजनाद्यपूर्वभोगेच्छानिमित्तप्र-

यत्नक्लेशार्पणेन कं न लक्ष्मी र्लघूकृतवतीत्यर्थः । कथंभूता । कृतवैकृतवैशसा
………….॥
 
कमलयामलया मलयाद्रिवत्रसदयासदया सदयाप्यया ।

प्रवरधीवर धीवर धीरया कलय मालयमालयमापदम् ॥ २६ ॥
 

 
कमलया इति, अमलया इति, मलयाद्रिवत् इति त्रसदयासदया इति, सदयाप्यया

इति, प्रवरधीवर इति, धीवर इति, धीरय इति, कलय इति, मा इति, अलयं इति,

आलयं इति, आपदि इति पदच्छेदः । हे धीवर किरातरूप, । पार्थस्य तपस्यतो भ
-
क्तिपौरुषादिपरीक्षार्थमित्यर्थः । तथा हे प्रवरधीवर प्रवरा उत्कृष्टा या धीर्बुद्धिस्तया वर

श्रेष्ठ, त्वं दयालुर्मलयाद्रिवचन्दनाचलवत् अमलया निर्मलया तथा त्रसतां भीतानां

अयासं अनायासं ददाति तादृश्या त्रसदयासदया । तथा सदयैः सकरुणैराप्या लभ्या

तादृश्या सदयाप्यया तथा धीरया स्थिरया कमलया लक्ष्म्या मा मां कलय भूषय ।

मां कीदृशम् । आपदां दुर्गतीनामालयं निवासस्थानम् । पुनः किंभूतम् । अलयमनश्वरं

निवासरहितं वा । पूर्वश्लोके मम धनं बहु प्रयत्नार्जितमपि विनाशं प्राप्तमिति निमित्तम
-
भिधायात्र वृत्ते हे भगवन्महेश्वर, त्वर्मिति हेतोर्मामापदामाश्रयमपि लक्ष्म्या मोक्षलक्ष्म्या

सालंकारं संपादयेति स्तोतुः प्रभुं प्रति विज्ञप्तिः ॥
 

 
वितरणाभरणा भरणाभयक्षममना मम नाम मनागपि ।
 

शुभवने भवने भव नेप्सितप्रद रमादरमादरमादधे ॥ २७ ॥
 
11
 

 
वितरणाभरणा इति, भरणाभयक्षममना इति, मम इति नाम इति, मनाक् इति,

अपि इति, शुभवने इति, भवने इति, भव इति, न इति, ईप्सितप्रद इति, रमा इति,

अदरं इति, आदरं इति, आदधे इति पदच्छेदः । नाम संभावनायाम् । हे भव

त्रिजगदुत्पादक, हे ईप्सितप्रद, वितरणं दानमेवाभरणं यस्याः सा । तथा भरणं पो-

षणं च अभयमभयदानं च तत्र क्षमं मनो यस्याः सा भरणाभयक्षममनाः । एवंभूता

रमा लक्ष्मीर्मनागपि ईषदपि अदरमभयं आदरं स्पृहां च मम भवने गृहे न आदधे न

चकार । भवने किंभूते । शुभवने शुभानि शोभनानि वनानि क्रीडोद्यानानि यस्मिमिं-

स्तादृशे ॥
 

 
अनयतो नयतो न यतो धृतिप्रद यमादयमादयमाश्रितः ।

त्रसति शंसति शंसति शं च यो धृतमुदं तमुदन्तमुदश्ञ्चय ॥ २८ ॥
 

 
अत्र अनयतः इति, नयतः इति, न इति, यतः
 
>
 
इति घृतिप्रद इति, यमात् इति,
 
"
 
Digitized by Google
 
इति ,धृतिप्रद इति, यमात् इति,