This page has not been fully proofread.

२६६
 
काव्यमाला ।
 
समुद्रस्य तनया । वै निश्चये। कं पुरुषमलाघवं लघुत्वविहीनं चकार । अपि तु सर्वे
लघुकृतवतीत्यर्थः । कया । मदनवादनेत्यादि । मदनस्य कामस्य वादः कामकलहस्तथा
'नवं नूतनं च तत् अदनं भोजनं तयोर्विषये या वासना इच्छा तथा यतनं प्रयत्नस्तेन
हेतुना या यातना तीव्रवेदना तथा हेतुभूतया कामकलहभोजनाद्यपूर्वभोगेच्छानिमित्तप्र-
यत्नक्लेशार्पणेन कं न लक्ष्मी लघूकृतवतीत्यर्थः । कथंभूता । कृतवैकृतवैशसा
कमलयामलया मलयाद्रिवत्रसदयासदया सदयाप्यया ।
प्रवरधीवर धीवर धीरया कलय मालयमालयमापदम् ॥ २६ ॥
 
कमलया इति, अमलया इति, मलयाद्रिवत् इति त्रसदयासदया इति, सदयाप्यया
इति, प्रवरधीवर इति, धीवर इति, धीरय इति, कलय इति, मा इति, अलयं इति,
आलयं इति, आपदि इति पदच्छेदः । हे धीवर किरातरूप, । पार्थस्य तपस्यतो भ
क्तिपौरुषादिपरीक्षार्थमित्यर्थः । तथा हे प्रवरधीवर प्रवरा उत्कृष्टा या धीर्बुद्धिस्तया वर
श्रेष्ठ, त्वं दयालुर्मलयाद्रिवचन्दनाचलवत् अमलया निर्मलया तथा त्रसतां भीतानां
अयासं अनायासं ददाति तादृश्या त्रसदयासदया । तथा सदयैः सकरुणैराप्या लभ्या
तादृश्या सदयाप्यया तथा धीरया स्थिरया कमलया लक्ष्म्या मा मां कलय भूषय ।
मां कीदृशम् । आपदां दुर्गतीनामालयं निवासस्थानम् । पुनः किंभूतम् । अलयमनश्वरं
निवासरहितं वा । पूर्वश्लोके मम धनं बहु प्रयत्नार्जितमपि विनाशं प्राप्तमिति निमित्तम
भिधायात्र वृत्ते हे भगवन्महेश्वर, त्वमित हेतोर्मामापदामाश्रयमपि लक्ष्म्या मोक्षलक्ष्म्या
सालंकारं संपादयेति स्तोतुः प्रभुं प्रति विज्ञप्तिः ॥
 
• वितरणाभरणा भरणाभयक्षममना मम नाम मनागपि ।
 
शुभवने भवने भव नेप्सितप्रद रमादरमादरमादधे ॥ २७ ॥
 
11
 
वितरणाभरणा इति, भरणाभयक्षममना इति, मम इति नाम इति, मनाक् इति,
अपि इति, शुभवने इति, भवने इति, भव इति, न इति, ईप्सितप्रद इति, रमा इति,
अदरं इति, आदरं इति, आदधे इति पदच्छेदः । नाम संभावनायाम् । हे भव
त्रिजगदुत्पादक, हे ईप्सितप्रद, वितरणं दानमेवाभरणं यस्याः सा । तथा भरणं पो-
षणं च अभयमभयदानं च तत्र क्षमं मनो यस्याः सा भरणाभयक्षममनाः । एवंभूता
रमा लक्ष्मीर्मनागपि ईषदपि अदरमभयं आदरं स्पृहां च मम भवने गृहे न आदधे न
चकार । भवने किंभूते । शुभवने शुभानि शोभनानि वनानि क्रीडोद्यानानि यस्मि-
स्तादृशे ॥
 
अनयतो नयतो न यतो धृतिप्रद यमादयमादयमाश्रितः ।
त्रसति शंसति शंसति शं च यो धृतमुदं तमुदन्तमुदश्चय ॥ २८ ॥
 
अत्र अनयतः इति नयतः इति न इति, यतः
 
>
 
इति घृतिप्रद इति, यमात् इति,
 
"
 
Digitized by Google