This page has not been fully proofread.

३ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
यस्मिन्निदं जगदुदेति च लीयते च
 
तच्छांभवं भवतु वैभवमृद्धये नः ॥ २ ॥
 
व्योन्नीवेति । यस्मिन्वैभवे नीरदभरो मेघौघो व्योनि नभसीव, वीचिव्यूहस्तरङ्ग-
समूह: सरसीव, सहस्रमहसि सूर्ये सुधांशुधाम चन्द्रतेज इव उदेति लीयते च इदं जगत्
तत् शांभवं शंभोरिदं वैभवं नोऽस्माकमृद्धयेऽस्तु ॥
 
लोकत्रयस्थितिलयोदयकेलिकारः
कार्येण यो हरिहरगुहिणत्वमेति ।
देवः ः स विश्वजनवाय्मनसातिवृत्त-
शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥ ३॥
लोकत्रयेति । यः कार्येण परोपकारहेतुना लोकत्रयस्य जगत्रयस्य स्थितिश्च लयश्चो-
दयब त एव केलिस्तं करोतीति तादृशः यो हरिहर द्रुहिणत्वम् । द्रुपत्यसुरेभ्यो द्रुहिणो
ब्रह्मा विष्णुरुद्रब्रह्मत्वं तद्रूपत्वमेति । विश्वेषां जनानां वायनसातिक्रान्तशक्तिः स
देवः शश्वत् सदैव अक्षयं शिवं निःश्रेयसरूपं दिशतु ददातु ॥
सर्वः किलायमवशः पुरुषाणुकर्म-
कालादिकारणगणो यदनुग्रहेण ।
विश्वप्रपश्चरचनाचतुरत्वमेति
 
२३
 
स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥ ४ ॥
 
सर्व इति । स त्रिभुवने एको महेश्वरो वो युष्मान् त्रायताम् । स क इत्याह-
पुरुषाणुकर्मेति । पुरि देहे शेते इति पुरुष आत्मा । अणवः परमाणवो व्यणुकत्र्यणुका-
दयः । कर्म शुभाशुभे । कालश्च ते आदौ येषां तानि पुरुषाणुकर्मकालादीनि यानि
कारणानि उपादाननिमित्तसहकारिकारणादीनि तेषां गणः अवशोऽस्वतन्त्रः कर्त्रधीनो
यदनुग्रहेण यस्य परमेश्वरस्यानुग्रहेण विश्वस्य जगतो यः प्रपन्चो विस्तारस्तस्य रचनायां
निर्माणे नैपुण्यमेति । अत्रायं भावः – परमशिवस्य परमात्मन एवेच्छावैभवोल्लासः
कुम्भकारस्थाने, परमात्मन एवाणीयस्तरांशांशप्रतिबिम्बजीवात्मसमवेतपार्थिवाद्यणुका
उपादानकारणं मृत्स्थाने, कर्म शुभाशुभं निमित्तकारणं दण्डस्थाने, कालादिसहकारि
कारणं च चक्रस्थान इति ॥
 
एकस्य यस्य सकलः करणानपेक्ष-
ज्ञानक्रियस्य पुरतः स्फुरति प्रपञ्चः ।
पश्यञ्जगत्करतलामलकीफलाभं
 
लाभं स पुष्यतु परं परमेश्वरो वः ॥ ५ ॥
 
Digitized by Google