This page has been fully proofread once and needs a second look.

३६४
 
काव्यमाला ।
 
हे पन्नगभीमहार। पन्नगरूपो भीमो हारो यस्य स तस्य संबोधनम् । हे फणिहार

श्रीशंभो । तथा हे हतदुर्नय । हता दुर्नया स्त्रिपुरान्धकप्रभृतयो येन स तस्य संबोधनम् ।

अन्ते निर्याणसमये कम्पस्यैकनिमित्तं तमशुभमन्तकं आशु शीघ्रं भङ्गं विनाशं नय

प्रापय । तं कमित्याह -मनसीत्यादि । अदोषेऽपि निर्दोषेऽपि मनस्यतिशयेन दौर्मनस्यं

महादुःखं ददातीति तादृशो यो भवति । किंभूतः । महान् रयो वेगो यस्य स तादृक् ॥

श्रीशिवैकतानतयात्मानं कृतकृत्यमिव विदन्कविराह-

 
न वारबाणा न हया नवारवा न दन्तिनः सद्मनि वा नदन्ति नः ।

क्षतापदाज्ञा तु विपक्षतापदा जितो भवः साधु हि पूजितो भवः २०

 
नोऽस्माकं सद्मनि वारबाणा: कबुञ्चुका न सन्ति । तथा नवोऽपूर्व आरवो हेषारवो

येषां तादृशा हया अश्वा न सन्ति । वाशब्दश्चार्थे । दन्तिनः करिणश्च नः सद्मनि

गृहे न नदन्ति । तुः पक्षान्तरे । आपदतिकष्टतरा जन्मजरामरणत्रासोद्भवा विपत्

क्षता बाधिता । अस्माकमाज्ञा विपक्षाणां शत्रूणामान्तराणां बाह्यानां वा तापदा भ
-
वति । यतोऽस्माभिर्भवः संसारः पुनरावृत्तिवशादतिकष्टदो जितो निर्नाशितः । हि य-

स्मात्कारणात्साधु सम्यक् वाङ्नः कायैस्तद्भक्त्यासक्त्या भवः श्रीशंभुः पूजितः ॥
 

 
जलाशया यान्ति मृगा जलाशया मरावलङ्घ्ये घ्नति पामरा बलम् ।

परं हसन्तो जितकोपरंहसं जना भवेऽप्युज्झितपूजना भवे ॥ २१ ॥

 
जलाशया इति डलयोरैक्याज्जडाशया मन्दमतयः पामरास्तुच्छस्त्रभावा मृगा जलाशया

जलस्याशया स्पृहया मरौ मरुमरीचिकासु बलं घ्नति विनाशयति अतिविततनिर्जलत्वात् ।

मरौ निर्जलदूराध्वनि अलङ्घषेघ्ये दुर्विगाहे यान्ति यथा इत्याक्षेपः । तथैव जडाशया मन्द-

धिषणाः पामरा नीचस्वभावा जना अपि भवे श्रीशंभावुज्झित पूजनास्त्यक्तनित्या र्चना

भवे संसारे मरुमरीचिकासर्परज्ज्वादीन्द्रजालतुल्ये यान्ति भ्रमन्ति । किंभूताः । जित-

कोपरंहसं परिहृतरोषरयं परं इसन्तः । स्वयं क्रोधाभिभूतत्वादन्यं क्रोधहेतौ सत्यपि

क्षमावन्तमुपहसन्त इत्यर्थः । यथा मरुमार्गे मृगा रविमरीचिकाचितासु सिकतासु स-

लिलभ्रममुद्दिश्य मिथ्या भ्रमन्ति सलिलं तु न लभन्ते प्रत्युत बलहान्या विनाशमेवा-

श्रुनुवते तथैव श्रीभगवदर्चनपराङ्मुखाः पामरा मन्दमतयः पुरुषाधमा अपि श्रीपरमशि-

वशक्तिपातविरहवशात्परमनिर्वाणप्राप्तिपरिपन्थिनि संसार एव मोहतिरोहितधियो मुधैव

भ्रमन्ति। परमेश्वरपूजनपरास्त्वीश्वरेणानुगृहीता भवक्लेशाभावान्मुच्यन्त इति तात्पर्यार्थः ॥
 

 
अमन्दरागाश्रितमन्दरागास्ते देवजाताविह देव जाताः ।
 

ये सिद्धसाध्यार्चित सिद्धसाध्या रता नवं तेनुरतानवं ते ॥ २२ ॥
 

 
हे देव । दीव्यति परमे पदे देवस्तत्संबोधनम् । हे देव परमशिव, अमन्देन महता

रागेण प्रेम्णा आश्रितो मन्दराख्योऽगः पर्वतो यैस्ते धन्या जना देवजातौ जाता अमर-
Digitized by Google