2023-02-23 21:28:00 by ambuda-bot
This page has not been fully proofread.
३६४
काव्यमाला ।
हे पन्नगभीमहार। पनगरूपो भीमो हारो यस्य स तस्य संबोधनम् । हे फणिहार
श्रीशंभो । तथा हे हतदुर्नय । हता दुर्नया स्त्रिपुरान्धकप्रभृतयो येन स तस्य संबोधनम् ।
अन्ते निर्याणसमये कम्पस्यैकनिमित्तं तमशुभमन्तकं आशु शीघ्रं भङ्गं विनाशं नय
प्रापय । तं कमित्याह -मनसीत्यादि । अदोषेऽपि निर्दोषेऽपि मनस्यतिशयेन दौर्मनस्यं
महादुःखं ददातीति तादृशो यो भवति । किंभूतः । महान् रयो वेगो यस्य स तादृक् ॥
श्रीशिवैकतानतयात्मानं कृतकृत्यमिव विदन्कविराह-
न वारबाणा न हया नवारवा न दन्तिनः सद्मनि वा नदन्ति नः ।
क्षतापदाज्ञा तु विपक्षतापदा जितो भवः साधु हि पूजितो भवः २०
नोऽस्माकं सद्मनि वारबाणा: कबुका न सन्ति । तथा नवोऽपूर्व आरवो हेषारवो
येषां तादृशा हया अश्वा न सन्ति । वाशब्दश्चार्थे । दन्तिनः करिणश्च नः सद्मनि
गृहे न नदन्ति । तुः पक्षान्तरे । आपदतिकष्टतरा जन्मजरामरणत्रासोद्भवा विपत्
क्षता बाधिता । अस्माकमाज्ञा विपक्षाणां शत्रूणामान्तराणां बाह्यानां वा तापदा भ
वति । यतोऽस्माभिर्भवः संसारः पुनरावृत्तिवशादतिकष्टदो जितो निर्नाशितः । हि य-
स्मात्कारणात्साधु सम्यक् वाङ्यनः कायैस्तद्भक्त्यासक्त्या भवः श्रीशंभुः पूजितः ॥
जलाशया यान्ति मृगा जलाशया मरावलङ्घये घ्नति पामरा बलम् ।
परं हसन्तो जितकोपरंहसं जना भवेऽप्युज्झितपूजना भवे ॥ २१ ॥
जलाशया इति डलयोरैक्याजडाशया मन्दमतयः पामरास्तुच्छस्त्रभावा मृगा जलाशया
जलस्याशया स्पृहया मरौ मरुमरीचिकासु बलं घ्नति विनाशयति अतिविततनिर्जलत्वात् ।
मरौ निर्जलदूराध्वनि अलङ्घषे दुर्विगाहे यान्ति यथा इत्याक्षेपः । तथैव जडाशया मन्द-
धिषणाः पामरा नीचस्वभावा जना अपि भवे श्रीशंभावुज्झित पूजनास्त्यक्तनित्या र्चना
भवे संसारे मरुमरीचिकासर्परज्ज्वादीन्द्रजालतुल्ये यान्ति भ्रमन्ति । किंभूताः । जित-
कोपरंहसं परिहृतरोषरयं परं इसन्तः । स्वयं क्रोधाभिभूतत्वादन्यं क्रोधहेतौ सत्यपि
क्षमावन्तमुपहसन्त इत्यर्थः । यथा मरुमार्गे मृगा रविमरीचिकाचितासु सिकतासु स-
लिलभ्रममुद्दिश्य मिथ्या भ्रमन्ति सलिलं तु न लभन्ते प्रत्युत बलहान्या विनाशमेवा-
श्रुवते तथैव श्रीभगवदर्चनपराङ्मुखाः पामरा मन्दमतयः पुरुषाधमा अपि श्रीपरमशि-
वशक्तिपातविरहवशात्परमनिर्वाणप्राप्तिपरिपन्थिनि संसार एव मोहतिरोहितधियो मुधैव
भ्रमन्ति। परमेश्वरपूजनपरास्त्वीश्वरेणानुगृहीता भवक्लेशाभावान्मुच्यन्त इति तात्पर्यार्थः ॥
अमन्दरागाश्रितमन्दरागास्ते देवजाताविह देव जाताः ।
ये सिद्धसाध्यार्चित सिद्धसाध्या रता नवं तेनुरतानवं ते ॥ २२ ॥
हे देव । दीव्यति परमे पदे देवस्तत्संबोधनम् । हे देव परमशिव, अमन्देन महता
रागेण प्रेम्णा आश्रितो मन्दराख्योऽगः पर्वतो यैस्ते धन्या जना देवजातौ जाता अमर-
Digitized by Google