This page has been fully proofread once and needs a second look.

३० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
३६३
 
दुःसहः । मनस्यपि निवेशयितुं न शक्य इत्यर्थः । अतो हेतोस्त्वं दयालुरुमया पार्वत्या

सहाभ्येत्य संमुखमागत्य भज । मामित्यर्थात् । कया । प्रसन्नया सानुग्रहया दृशा । किंभुभू-

तया । कृतानङ्गभुजा॑जांसहोमया कृतः अनङ्गस्य कामस्य भुजांसहोमो बाहुस्कन्धाद्यवयव -

होमो यया सा तादृश्या ।
 

 
कले वरं दातुमुदीरितेंतेऽस्ति या सुधा सुवाक्ये तव निष्कले वरम् ।
कलेव र

कलेव रङ्
क्कङ्कतनोरसौ कदा ममेंमेदमाप्याययते कलेवरम् ॥ १६ ॥
 

 
हे भगवन्, असौ सुधा भवद्भक्तिसुधा ममाशरणस्य इदं कलेवरं देहं कदा आप्या-

ययते। केव। रङ्कङ्कतनोंःक्कङ्कतनोः कलेव । रङ्कुर्मृगविशेषः । 'रङ्कुशम्बररोहिषाः" इत्यमरः । रङ्गुकु-

रङ्के यस्याः सा तनुर्यस्य स रङ्क्कङ्कतनुर्मृगाङ्कस्तस्य कलेव पोयूषसारमयी । सा केंत्याह ।

अत्र पूर्वार्धे कले इति वरमिति निष्कले इति वरमिति पदच्छेदः । कले रलयोरैक्या-

त्करे पाणावाश्रितजनस्य वरमुत्कृष्टं वरमभिलषितं दातुमुदीरिते उच्चारिते तव निष्कले

कलाया व्याजान्निष्क्रान्ते सुवाक्येऽतिमधुरवाक्ये या सुधा पीयूषप्रणाल्यस्ति ॥
 

 
सदानवारिद्विरदा वरूथिनी हरेरिव ध्वस्तसहिंसदानवा ।
 

सदा नवाराद्धशिवा शिवाप्तये न कस्य गीर्भक्तिविकासदा नवा ॥१७॥
 

 
अत्र पूर्वार्धे सदानवारि इति ध्वस्तसहिंसदानवा इति पदच्छेदः । उत्तरार्धे तु सदा

इति नवाराद्धशिवा इति भक्तिविकासदा इति नवा इति च पदच्छेदः । सदा नित्यं नवा.
-
राद्धशिवा नवैः स्तवैराराद्ध उपासितः शिवः श्रीशंभुर्यया तादृशी गीर्वाणी कस्य न शिवा-

प्
तये कैवल्यप्राप्तये भवति । अपि तु सर्वस्य । गीः किंभूता । नवा नूतना । तथा भक्ते-

र्
विकासदा । किंभूता । ध्वस्तसहिंसदानवा ध्वस्ताः सहिंसा दानवा यया सास्त । केंव । -

रेर्विष्णोर्वरूथिनी सेना इव । सापि किंभूता । दानवारिणा मदजलेन सह वर्तन्ते तादृशा

द्विरदा यस्यां सा ॥
 

 
घनैरहंताकृतलङ्घनैरहं महारिभिर्निर्मलशर्महारिभिः ।
 

निराकृतौजा धृतहानिराकृतौ न तेऽवलेपावसरो नतेऽबले ॥ १८ ॥
 

 
हे भगवन्, घनैः प्रबलैः तथा निर्मलं यत् शर्म शान्तिसुखं तद्धरन्ति तादृशा-

स्तैर्निर्मल शर्महारिभिर्महारिभिर्महद्भिररिभिः कामक्रोधादिभिर्निराकृतमोजो यस्य स तादृ-

गस्मि । पुनः किंभूतः । आकृतौ शरीरसंस्थानेऽपि धृता हानिर्येन स तादृगस्मि । अतो है
हे
दयालो, नते प्रणते अबले बलरहिते अर्थान्मयि ते स्वामिनो महाकृपालोरवलेपस्यावसरो

न भवति । अवहेला न युक्तेत्यर्थः ॥
 

 
मनस्यदोषेऽप्यतिदौर्मनस्यदो महारयः पन्नगभीमहार यः ।

तमन्तकम्पैकनिमित्तमन्तकं नयाशु भङ्गं हतदुर्नयाशुभम् ॥ १९ ॥.
 
Digitized by Google