This page has not been fully proofread.

३६२
 
काव्यमाला ।
 
तव
 
उत्तरार्धे तु यमकृतचापलतानवा इति समाधिमिति च पदच्छेदः । हे भगवन्,
चापलता धनुर्यष्टिः सवहरिणं यज्ञमृगं बलात्पलायमानं नती यज्ञमृगस्योत्तमाङ्गभङ्गं वि-
दधती सती ये महर्षि दक्षं नवासमाधिमकृत विदधे नवः कदाचिदप्यननुभूतत्वात् अ
समोऽनन्यसामान्यः आधिर्मनोव्यामोहो यस्य स तथाविधमकृत । एतत्तु अत्यद्भुतम् ।
तव दयालोर्हग्दृष्टिः पुनरपि समाधि भुक्तिमुक्तिनिमित्तं योगमलम्भयत्प्रापयामास । किं
भूता दृक् । यमकृतचापलतानवा यमस्यान्तकस्य कृतं चापलतानवं चापलतातनुलं
यया । श्वेतनृपाभयदानेन यमस्य चापलं या अनाशयदित्यर्थः । यो भगवन्तं जामातर-
मपि क्रतावनिमन्त्र्यावज्ञातवान् तस्य दक्षमुनेर्मृगरूपेण पलायितस्य यज्ञस्य धनुराकृष्य
मुक्तेन शरेण शिरःशातनपर्यन्तं क्रोधं विधाय पुनरपि प्रणामस्तवादिना प्रसादितः प-
रमेश्वरो दयार्द्रया दृशा शिवैकतानतानिमित्तसमाधिलाभहेतुभूतं तस्यानुग्रहमकरोदित्यव-
न्ध्यकोपप्रसादता भगवतो व्यज्यते ॥
 
सभाजनेऽनल्परतेर्नृपस्य त्वद्भक्तिभाजः प्रसभाजनेन ।
 
सभा जनेन प्रगुणेन पूर्णा विभाति निःश्रेयसभाजनेन ॥ १३ ॥
 
अत्र पूर्वार्धे सभाजने इति अनल्परतेरिति प्रसभाजनेनेति च पदच्छेदः । उत्तरार्धे
तु सभा इति जनेनेति निःश्रेयसभाजनेनेति च पदच्छेदः । हे भगवन्, त्वद्भक्तिभाजो
नृपस्य धन्यस्य सभा प्रगुणेन प्रकृष्टगुणेन जनेन पूर्णा विभाति विशेषेण सातिशयेन भा
सतै । किंभूतेन । प्रसभाजनेन प्रसभं प्रकाशमजनं गतिर्यस्य स तादृशेन । तथा निःश्रेय-
सभाजनेन कैवल्यपात्रेण । नृपस्य किंभूतस्य । सभाजने प्रीतिदर्शनेऽनल्परतेर्भूरि-
तरसक्तेः ॥
 
अनन्तरायन्त्रितवाग्भवस्त्वां गृणाति यो नित्यमनन्तरायम् ।
 
अनन्तरायं स्वयमेत्य लक्ष्मीर्निषेवते तं समनन्तरायम् ॥ १४ ॥
 
हे भगवन्, लक्ष्मीः कमला तं पुरुषं स्वयमेत्य निषेवते । किंभूतम् । अनन्तरायं अ-
नन्ता निर्विनाशा रायो धनानि यस्य स तादृशम् । रैशब्दो धनवाचकः । पुनः किंभू-
तम् । समनन्तरायं समनन्तर आसन्नोऽयः शुभावहविधिर्यस्य तम् । तं कमित्याह - अ
नन्तरेत्यादि । अनन्तरमविद्यमानमन्तरं कथान्तरव्यवधानं यस्य ईदृशः अयन्त्रितो नि
निरोधो वाग्भवो वागुद्भवो वाणीविलासो यस्य स तादृशो यः पुरुषो धन्यस्त्वां विभुं
नित्यमनन्तरायमन्तरायरहितं निर्विघ्नं गृणाति स्तौति ॥
 
सहो मयाद्यैरपि यस्य दुर्धरं यमः स धर्तु हृदि दुःसहो मया ।
सहोमयाभ्येत्य भज प्रसन्नया दृशा कृतानङ्गभुजांसहोमया ॥ १५ ॥
हे भगवन्, मंयो विश्वकर्मसुतो जगन्निर्माणकर्मनिपुण आद्यो येषां ते तादृशैरपि म
हर्षिभिर्यस्य यमस्य सहो बलं दुर्धरं दुर्निवारं स यमो मया वराकेण हृदि मनसि धर्तु
 
१. 'अहो' ख.
 
Digitized by Google