This page has been fully proofread once and needs a second look.

३० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
३६१
 
हे चन्द्रमौले, येन रविणा त्वत्प्रसादवशात् कोऽप्यनन्यसामान्यः करोत्करो रश्मिसमूहो
-
ऽर्जितः प्राप्तः । किंभूतः । तामरसभासनस्तामरसानां कमलानां भासनः । पुनः किंभूतः ।

कोपितामरसभासनोर्जित: कोपितः सकोपः कृतोऽमरसभायामासनं यस्य सोऽमरस.
-
भासन इन्द्रो येन तादृशश्चासावूर्जितो बलवांश्च । देवसभमस्य कोपः (?) । तस्य ती-

क्ष्णांशुत्वात् । युगलकम् ॥
 

 
महतामतामसमहावपुषं भवभक्तिमर्थितवतां भगवन् ।
 

महतामतामसमहावपुषं प्रथयन्ति कीर्तिमिह सिद्धगणाः ॥ १० ॥
 
.9
 

 
अत्र पूर्वार्धे महता मतामिति असमहावपुषमिति च पदच्छेदः । उत्तरार्धे तु महता-

मिति अतामसमहावपुषमिति च पदच्छेदः । हे भगवन्नैश्वर्यादिषट्कयुक्तस्वामिन् इह

जगति सिद्धानां देवयोनिविशेषाणां गणाः कीर्तितिं प्रथयन्ति विस्तारयन्ति । केषाम् । तव

विभोर्भक्तितिं भावनामर्थितवतामाश्रितवताम् । महतां महात्मनाम् । किंभूतां तव भ-

क्तिम् । महतामतां मह उत्सवस्तस्य भावो महता तया मताम् । महोत्सवरूपतया म-

तामित्यर्थः । पुनः कीदृशीम् । असमा अनन्यसमा ये हावा: प्रणामार्चनस्तवनादयश्चेष्टा-

विशेषास्तान्पुष्णातीत्यसमहावपुट् तादृशीम् । पुनः किंभूताम् । अतामसमहावपुषम् अ-

तामसमकलुषं महद्वपुर्यस्याः सा अतामसमहावपुस्तादृशीम् ॥

 
अध्यास्यते शमजुषा भवतः प्रसादा-

दामोदराजितरुचारु चिरं जनेन ।

दामोदराजितरुचा रुचिरञ्जनेन
 

कीर्णं तृणेन मृदुना वनमार्तवेन ॥ ११ ॥
 

 
अत्र पूर्वार्धे प्रसादादिति आमोदराजितरुचारु इति जनेन इति च पदच्छेदः । उ
-
तरार्धे तु दामोदराजितरुचा इति रुचिरञ्जनेन इति च पदच्छेदः । हे भगवन्, भवत-

स्तव दयालोः प्रसादात् शमजुषा शान्तचेतसा जनेन भक्तजनेन चिरं बहुकालं सिद्धि-

लाभावधि अनुद्विमेग्नेन वनं काननमध्यास्यते सेव्यते । किंभूतं वनम् । आमोदराजितरु

चारु आमोदेन सौरभेण राजन्ते शोभन्ते तादृशा ये तरवो वृक्षास्तैश्चारु । पुनः किंभू-

तम् । आर्तवेन ऋतुसंभवेन तृणेन शाद्वलेन मृदुना कोमलेन कीर्णेणं वृतम् । किंभूतेना-

र्तवेन तृणेन दामोदराजितरुचा दामोदरेण श्रीकृष्णेनाजिता अन्यूनीकृता रुग्द्युतिर्यस्य

तत्तादृशेन । पुनः किंभूतेन । रुचिरञ्जनेन अभिप्रायावर्जकेन ॥
 

 
तव सवहरिणं घ्नती [^१]महर्षिषिं यमकृत चापलता नवासमाधिम् ।

पुनरपि दृगलम्भयत्तवैनं यमकृतचापलतानवा समाधिम् ॥ १२ ॥

 
अत्र पूर्वार्धे यमिति अकृत इति चापलता इति नवा समाधिमिति च पदच्छेदः ।

 
[^
]. 'महर्द्धि' ख.
 
Digitized by Google