This page has not been fully proofread.

३० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
३६१
 
हे चन्द्रमौले, येन रविणा त्वत्प्रसादवशात् कोऽप्यनन्यसामान्यः करोत्करो रश्मिसमूहो
ऽर्जितः प्राप्तः । किंभूतः । तामरसभासनस्तामरसानां कमलानां भासनः । पुनः किंभूतः ।
कोपितामरसभासनोजित: कोपितः सकोपः कृतोऽमरसभायामासनं यस्य सोऽमरस.
भासन इन्द्रो येन तादृशश्चासावूजितो बलवांश्च । देवसभमस्य कोपः (?) । तस्य ती-
क्ष्णांशुत्वात् । युगलकम् ॥
 
महतामतामसमहावपुषं भवभक्तिमर्थितवतां भगवन् ।
 
महतामतामसमहावपुषं प्रथयन्ति कीर्तिमिह सिद्धगणाः ॥ १० ॥
 
.9
 
अत्र पूर्वार्धे महता मतामिति असमहावपुषमिति च पदच्छेदः । उत्तरार्धे तु महता-
मिति अतामसमहावपुषमिति च पदच्छेदः । हे भगवन्नैश्वर्यादिषट्कयुक्तस्वामिन् इह
जगति सिद्धानां देवयोनिविशेषाणां गणाः कीर्ति प्रथयन्ति विस्तारयन्ति । केषाम् । तव
विभोर्भक्ति भावनामर्थितवतामाश्रितवताम् । महतां महात्मनाम् । किंभूतां तव भ-
क्तिम् । महतामतां मह उत्सवस्तस्य भावो महता तया मताम् । महोत्सवरूपतया म-
तामित्यर्थः । पुनः कीदृशीम् । असमा अनन्यसमा ये हावा: प्रणामार्चनस्तवनादयश्चेष्टा-
विशेषास्तान्पुष्णातीत्यसमहावपुट् तादृशीम् । पुनः किंभूताम् । अतामसमहावपुषम् अ-
तामसमकलुषं महद्वपुर्यस्याः सा अतामसमहावपुस्तादृशीम् ॥
अध्यास्यते शमजुषा भवतः प्रसादा-
दामोदराजितरुचारु चिरं जनेन ।
दामोदराजितरुचा रुचिरञ्जनेन
 
कीर्ण तृणेन मृदुना वनमार्तवेन ॥ ११ ॥
 
अत्र पूर्वार्धे प्रसादादिति आमोदराजितरुचारु इति जनेन इति च पदच्छेदः । उ
तरार्धे तु दामोदराजितरुचा इति रुचिरञ्जनेन इति च पदच्छेदः । हे भगवन्, भवत-
स्तव दयालोः प्रसादात् शमजुषा शान्तचेतसा जनेन भक्तजनेन चिरं बहुकालं सिद्धि-
लाभावधि अनुद्विमेन वनं काननमध्यास्यते सेव्यते । किंभूतं वनम् । आमोदराजितरु
चारु आमोदेन सौरभेण राजन्ते शोभन्ते तादृशा ये तरवो वृक्षास्तैश्चारु । पुनः किंभू-
तम् । आर्तवेन ऋतुसंभवेन तृणेन शावलेन मृदुना कोमलेन कीर्णे वृतम् । किंभूतेना-
र्तवेन तृणेन दामोदराजितरुचा दामोदरेण श्रीकृष्णेनाजिता अन्यूनीकृता रुग्द्युतिर्यस्य
तत्तादृशेन । पुनः किंभूतेन । रुचिरञ्जनेन अभिप्रायावर्जकेन ॥
 
तव सवहरिणं नती महर्षि यमकृत चापलता नवासमाधिम् ।
पुनरपि दृगलम्भयत्तवैनं यमकृतचापलतानवा समाधिम् ॥ १२ ॥
अत्र पूर्वार्धे यमिति अकृत इति चापलता इति नवा समाधिमिति च पदच्छेदः ।
१. 'महर्द्धि' ख.
 
Digitized by Google