This page has been fully proofread once and needs a second look.

३६०
 
काव्यमाला ।
 
हे विभो, सा नुतिः स्तुतिर्मत्कृता विपदं जन्मजरामरणत्रासोत्पन्नां धुनातु निवार-

यतु । 'धूञ् कम्पने' । कदा । अधुना किंभूता । भवामयायामयापनलसद्रसा भवः सं-

सार एवामयो व्याधिस्तस्य य आयामो विस्तारस्तस्य यापनं निवारणं तत्र लसन्रसो

यस्याः सा । तन्निवारणसक्तेत्यर्थः । सा का इत्याह - साध्वित्यादि । हे नाथ, हे मया-

र्
चित । मयो नाम विश्वकर्मसुतस्तेनार्चितः पूजितस्तसंबोधनम् । साधुना सज्जनेन मया

अत्र भवद्विषये या नुतिः स्तुतिः कृता । कया । ईप्सया इच्छया । कथम् । साधु

साधु कृत्वा ॥
 

 
न मेऽभिभूतस्य पिता न माता न वा सनाभिर्धनवासनाभिः ।
 


अरिस्तु रुन्धे सुदृदा वियुक्तं समाधिना मानसमाधिना सा ॥ ६ ॥
 

 
हे विभो, धनवासनाभिर्द्रविणतृष्णाभिरभिभूतस्य वशीकृतस्य मे पिता नोपरोधस्था-

नम् । तच्चरणशुश्रूषायाः कदाप्यकरणात् । न च माता जननी । वाशब्दश्चार्थे । न च

सनाभिः सोदर उपरोधस्थानम् । तु पक्षान्तरे । समाधिना परमेश्वरचरणध्यानरूपेण

सुहृदा बन्धुना वियुक्तं मम मानसमाधिनामा पुनः पुनर्भवमरुभ्रमणजपीडानामा अ-

रिस्तु रुन्धे ॥
 

 
दर्पकान्तक विराजमानयादर्पकान्तकविराजमानया ।
 

त्वत्प्रसादविधिलब्धया धिया साधवो दधति वैबुधीं धुरम् ॥ ७ ॥
 

 
हे दर्पकान्तक । दर्पकस्य कामस्यान्तको दाकृत्तत्संबोधनम् । साधवो वैबुध धुरं
विषु

विबु
धानां पण्डितानामियं वैबुधी तां धुरं दधति । विबुधाप्ग्रणीभावं भजन्त इत्यर्थः ।

अथ वा वैबुधीं देवसंबन्धिनीं धुरं देवताप्ग्रणीभावं भजन्ते । कया । घिधिया बुद्ध्या । कथं-

भूतया । त्वत्प्रसादविधिना लब्धा तया । पुनः कथंभूतया । विराजमानया शोभमा-

नया । पुनः कथंभूतया । अदर्पकान्तकविराजमानया अदर्प्रापाणामनहंकारिणां जनानां

कान्तोऽभिलषितः कविराजानां महाकवीनां मनो यस्यां सा तया ॥
 

 
येन शीतकरखण्डशेखर त्वत्प्रसादवशतः करोत्करः ।
 

कोsपि तामरसभासनोऽर्जितः कोपितामरसभासनोर्जितः ॥ ८ ॥

 
रविरलं कुरुते नवरञ्जनं स किल यत्तव दक्षिणमीक्षणम् ।

इममपास्य तमः सहजं शनैरविरलं कुरु तेन वरं जनम् ॥ ९॥ (युग्मम् )
 

 
हे शीतकरखण्डशेखर चन्द्रशेखर, तेन दक्षिणेनेक्षणेन दर्शनेन रविप्रकाशात्मना स-

हजं तमोऽज्ञानमेव तमोऽन्धकारमविरलं घनमपास्य दूरीकृत्य इमं जनं मल्लक्षणं शनैः

वरमुत्कृष्टं कुरु । अत्र इममित्यस्यास्थानपदत्वेऽपि भक्तिविषये न दोषः । तेन ईक्षणेन

केनेत्याह—रविरित्यादि । किल प्रसिद्धः स रविर्भास्वांस्तव यद्दक्षिणमीक्षणमलंकुरुते ।

किंभूतम् । नवरञ्जनं नवं रजनं रागो यस्मिंस्तत् । स रविः कः । येन शीतकरेत्यादि ।
 
Digitized by Google