2023-02-23 21:27:59 by ambuda-bot
This page has not been fully proofread.
३६०
काव्यमाला ।
हे विभो, सा नुतिः स्तुतिर्मत्कृता विपदं जन्मजरामरणत्रासोत्पन्नां धुनातु निवार-
यतु । 'धूञ् कम्पने' । कदा । अधुना किंभूता । भवामयायामयापनलसवसा भवः सं-
सार एवामयो व्याधिस्तस्य य आयामो विस्तारस्तस्य यापनं निवारणं तत्र लसन्रसो
यस्याः सा । तन्निवारणसक्तेत्यर्थः । सा का इत्याह - साध्वित्यादि । हे नाथ, हे मया-
चित । मयो नाम विश्वकर्मसुतस्तेनार्चितः पूजितस्तसंबोधनम् । साधुना सजनेन मया
अत्र भवद्विषये या नुतिः स्तुतिः कृता । कया । ईप्सया इच्छया । कथम् । साधु
साधु कृत्वा ॥
न मेऽभिभूतस्य पिता न माता न वा सनाभिर्धनवासनाभिः ।
।
अरिस्तु रुन्धे सुदृदा वियुक्तं समाधिना मानसमाधिना सा ॥ ६ ॥
हे विभो, धनवासनाभिर्द्रविणतृष्णाभिरभिभूतस्य वशीकृतस्य मे पिता नोपरोधस्था-
नम् । तच्चरणशुश्रूषायाः कदाप्यकरणात् । न च माता जननी । वाशब्दश्चार्थे । न च
सनाभिः सोदर उपरोधस्थानम् । तु पक्षान्तरे । समाधिना परमेश्वरचरणध्यानरूपेण
सुहृदा बन्धुना वियुक्तं मम मानसमाधिनामा पुनः पुनर्भवमरुभ्रमणजपीडानामा अ-
रिस्तु रुन्धे ॥
दर्पकान्तक विराजमानयादर्पकान्तकविराजमानया ।
त्वत्प्रसादविधिलब्धया धिया साधवो दधति वैबुधीं धुरम् ॥ ७ ॥
हे दर्पकान्तक । दर्पकस्य कामस्यान्तको दाइकृत्तत्संबोधनम् । साधवो वैबुध धुरं
विषुधानां पण्डितानामियं वैबुधी तां धुरं दधति । विबुधाप्रणीभावं भजन्त इत्यर्थः ।
अथ वा वैबुध देवसंबन्धिनीं धुरं देवताप्रणीभावं भजन्ते । कया । घिया बुद्ध्या । कथं-
भूतया । त्वत्प्रसादविधिना लब्धा तया । पुनः कथंभूतया । विराजमानया शोभमा-
नया । पुनः कथंभूतया । अदर्पकान्तकविराजमानया अदर्प्राणामनहंकारिणां जनानां
कान्तोऽभिलषितः कविराजानां महाकवीनां मनो यस्यां सा तया ॥
येन शीतकरखण्डशेखर त्वत्प्रसादवशतः करोत्करः ।
कोsपि तामरसभासनोऽर्जितः कोपितामरसभासनोर्जितः ॥ ८ ॥
रविरलं कुरुते नवरञ्जनं स किल यत्तव दक्षिणमीक्षणम् ।
इममपास्य तमः सहजं शनैरविरलं कुरु तेन वरं जनम् ॥ ९॥ (युग्मम् )
हे शीतकरखण्डशेखर चन्द्रशेखर, तेन दक्षिणेनेक्षणेन दर्शनेन रविप्रकाशात्मना स-
हजं तमोऽज्ञानमेव तमोऽन्धकारमविरलं घनमपास्य दूरीकृत्य इमं जनं मल्लक्षणं शनैः
वरमुत्कृष्टं कुरु । अत्र इममित्यस्यास्थानपदत्वेऽपि भक्तिविषये न दोषः । तेन ईक्षणेन
केनेत्याह—रविरित्यादि । किल प्रसिद्धः स रविर्भास्वांस्तव यद्दक्षिणमीक्षणमलंकुरुते ।
किंभूतम् । नवरञ्जनं नवं रजनं रागो यस्मिंस्तत् । स रविः कः । येन शीतकरेत्यादि ।
Digitized by Google