2023-10-23 10:19:48 by jayusudindra
This page has been fully proofread once and needs a second look.
३० स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
३५९
क्तमभियुक्तैः–'यावत्पश्यसि पन्थानं यावत्ते चरणौ स्थितौ । याव
वदात्महितं कुरु ॥' इति । पुनः किंभूतामैश्वरीं मूर्तिम् । प्रसीदतीति प्रसादिनी प्रसादो-
ऽस्यास्तीति वा ताम् । कामिव शारदीं शरत्कालभवां नदीमिव । साप्यगस्त्यमुनेरुदयेन
प्रसन्नजला भवति । नदीं किंभूताम् । उच्चानि यानि कैरवाणि सितोत्पलानि सरोजानि
च पद्मानि तै राजिता शोभिता ताम् ॥
रोहिणीरमणखण्डमण्डनं नदिनन्दिनमनं दिनं दिनम् ।
नौमि बिभ्रतमुपोढकालिकासंगमं गलमसङ्गमङ्गलम् ॥ २ ॥
अहं वराको रोहिणीरमणखण्डमण्डनं चन्द्रार्धमौलि विभुं दिनं दिनं प्रतिदिनं
नौमि । किं
नन्दिरुद्रस्य नमनं प्रणामो यस्य स तादृशम् । पुनः किंभूतम् । गलं कण्ठं बिभ्रतम् ।
कीदृशम् । उपोढकालिकासंगमं उपोढः प्राप्तः कालिकया श्यामलिम्ना कालकूटगरलक-
वलीकरणजातेन संगमो यस्य स तादृशम् । पुनः किंभूतं गलम् । असङ्गं निर्निरो
ङ्गलं यस्य स तम् ॥
नौमि भक्तजनकण्ठनिःसरन्नादरञ्जितमकालकामदम् ।
कालकामदमनादरं जितक्लेशमीशममृतांशुशेखरम् ॥ ३ ॥
अहममृतांशुशेखरं चन्द्रशेखरमीशं परमेश्वरं नौमि । किंभूतम् । भक्तजनस्य कण्ठा-
भि
न्निसरन्यो नादः अतिक्रुद्धकृतान्तत्रासोद्भूतः 'अशरणं मां पाहि' इति तेन रञ्जितस्ता-
दृशम् । तथा अकालेऽनवसरेऽपि काममभिलषितं ददातीति तादृशम् । तथा काल-
कामयोः कृतान्तस्मरयोर्दमने आदरो यस्य स तादृशम् । पुनः किंभूतम् । जिता दूरी
कृता: क्लेशा अविद्यादयः पञ्च भवमरुभ्रमणजा वा क्लेशा भक्तजनस्य येन तादृशम् ॥
भ्राम्यतु द्रविणतृष्णया भृशं मानसं सदिनमानसंसदि ।
त्वत्स्तवामृतमृते तु दुस्तरे बन्धुरध्वनि न बन्धुरध्वनि ॥ ४ ॥
हे विभो । ममेति शेषः । मम मानसं चित्तं भृशमत्यर्
तृष्णया धन
यस्यां सा तादृशी या संसत्सभा तस्याम् । हे दयालो । तु पक्षान्तरे । दुस्तरेऽध्वनि भ
वमरुप्रदेशे बन्धुराश्वासको न भवति । किमृते । त्वत्स्तव एवामृतं तदृते । त्वत्स्तवामृतं
किं
तिशयिनि व्यङ्
साधु नाथ नुतिरीप्सया मया या मयार्चित कृतात्र साधुना ।
सा धुनातु विपदं भवामयायामयापनलसद्
Digitized by Google