This page has been fully proofread once and needs a second look.

३५८.
 
काव्यमाला ।
 
तथा महाहिर्वासुकिर्नागाधीश एव वलयः कङ्कणं यस्य सः । तथा लयेन नाशेनोज्झितं

वपुर्यस्य स भवः श्रीशंभुरघौघशमनः समस्तपातक हारी भवतु । केषाम् । वो युष्माकम् ।

कीदृशानाम् । मनसि धृतमुदाम् । किंभूतो भवः । उदात्तविभवः परमैश्वर्यसंपन्नः ॥

 
एकः पादोदकमधिशिरः श्लाघ्यमन्यस्य धत्ते

चक्रे पूजां नयनकमलेनापरस्य द्वितीयः ।

इत्यन्योन्यं प्रकृतिमहतामन्तरज्ञौ गुणानां
 

हर्षोत्कर्षं कमपि कुरुतां कामकंसद्विषौ वः ॥ ३५ ॥

 
इत्यनेन प्रकारेणान्योन्यं परस्परं प्रकृत्या स्वभावेन महतां गुणानामनन्यसाधारणा-

नामन्तरज्ञौ कामकंसद्विषौ श्रीशंभुविष्णू वो युष्माकं कमपि हर्षस्योत्कर्षं कुरुताम् ।

इति किमित्याह – एकः शंभुरन्यस्य विष्णोः श्लाघ्यं पादोदकम् । गङ्गामित्यर्थः । अधि

शिरः शिरसि धत्ते । द्वितीयो विष्णुरपरस्य श्रीशंभोर्नयनकमलेन नेत्राम्बुजेन स्वेन

पूजां चक्रे । 'हरिस्ते साहस्रं कमलबलिमाधाय पदयोः' इत्याख्यानात् ॥
 

 
यस्मिन्नद्रिसमुद्रजावहनयोरुत्सृज्य नैसर्गिकं
 

वैरं केसरिकुञ्जरप्रवरयोः सौहार्दहृद्या स्थितिः ।

यस्मिन्नप्यहि राजपन्नगभुजौ निर्व्याजमैत्रीयुजौ
 

निष्प्रत्यूहमसौ महापुरुषयोः संघिधिर्निबध्नातु वः ॥ ३६ ॥

 
असौ महापुरुषयोः श्रीशंभुनारायणयोः संधिर्मेलापो वो युष्माकं निष्प्रत्यूहं नि-

र्
विघ्नत्वं बध्नातु । करोत्वित्यर्थः । असौ क इत्याह – यस्मिन्महापुरुषवपुःसंधौ अद्रि-

समुद्रजावहनयोः पर्वतक्षीराब्धिजावाहनयोः केसरिकुञ्जरप्रवरयोः सिंहगजेन्द्रयोः सौ-

हार्देन हृद्या स्थितिर्भवति । किं कृत्वा । नैसर्गिकं वैरमुत्सृज्य । तथा यस्मिन्महापुरुष-

संधौ अहिराजपन्नगभुजौ उपवीतीकृतवासुकिनागराजगरुडौ निर्व्याजमैत्रीयुजौ भवतः ॥

 
इति श्रीराजानकशंकरकण्ठात्मजरत्न कण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जला-

वेकान्तरयमकस्तोत्रमेकोनत्रिंशम् ॥
 

 
त्रिंशः सर्गः ।
 
-
 

 
अथातो ग्रन्थकृन्महायम कचित्रं त्रिंशं स्तोत्रमारभमाण आह -

 
शारदीमिव नदीं प्रसादिनीमुच्चकैरवसरोजराजिताम् ।

स्तोतुमेष मम मूर्तिमैश्वरीमुच्चकैरवसरोऽजराजिताम् ॥ १॥

 
एषोऽवसरः समय उच्चकैर्महानस्ति । किं कर्तुम् । ऐश्वरीं परमेश्वरसंबन्धिनीं मूर्ति स्तो-

तुम् । किंभूताम् । अजराजितां न जरया जिता ताम्रमू । जरयेत्युपलक्षणम् । जन्मजरा-
Digitized by Google