This page has not been fully proofread.

३५८.
 
काव्यमाला ।
 
तथा महाहिर्वासुकिर्नागाधीश एव वलयः कङ्कणं यस्य सः । तथा लयेन नाशेनोज्झितं
वपुर्यस्य स भवः श्रीशंभुरघौघशमनः समस्तपातक हारी भवतु । केषाम् । वो युष्माकम् ।
कीदृशानाम् । मनसि धृतमुदाम् । किंभूतो भवः । उदात्तविभवः परमैश्वर्यसंपन्नः ॥
एकः पादोदकमधिशिरः श्लाघ्यमन्यस्य धत्ते
चक्रे पूजां नयनकमलेनापरस्य द्वितीयः ।
इत्यन्योन्यं प्रकृतिमहतामन्तरज्ञौ गुणानां
 
हर्षोत्कर्ष कमपि कुरुतां कामकंसद्विषौ वः ॥ ३५ ॥
इत्यनेन प्रकारेणान्योन्यं परस्परं प्रकृत्या स्वभावेन महतां गुणानामनन्यसाधारणा-
नामन्तरज्ञौ कामकंसद्विषौ श्रीशंभुविष्णू वो युष्माकं कमपि हर्षस्योत्कर्ष कुरुताम् ।
इति किमित्याह – एकः शंभुरन्यस्य विष्णोः श्लाघ्यं पादोदकम् । गङ्गामित्यर्थः । अधि
शिरः शिरसि धत्ते । द्वितीयो विष्णुरपरस्य श्रीशंभोर्नयनकमलेन नेत्राम्बुजेन स्वेन
पूजां चक्रे । 'हरिस्ते साहस्रं कमलबलिमाधाय पदयोः' इत्याख्यानात् ॥
 
यस्मिन्नद्रिसमुद्रजावहनयोरुत्सृज्य नैसर्गिकं
 
वैरं केसरिकुञ्जरप्रवरयोः सौहार्दहृद्या स्थितिः ।
यस्मिन्नप्यहि राजपन्नगभुजौ निर्व्याजमैत्रीयुजौ
 
निष्प्रत्यूहमसौ महापुरुषयोः संघिर्निबध्नातु वः ॥ ३६ ॥
असौ महापुरुषयोः श्रीशंभुनारायणयोः संधिर्मेलापो वो युष्माकं निष्प्रत्यूहं नि-
विघ्नत्वं बध्नातु । करोत्वित्यर्थः । असौ क इत्याह – यस्मिन्महापुरुषवपुःसंधौ अद्रि-
समुद्रजावहनयोः पर्वतक्षीराब्धिजावाहनयोः केसरिकुञ्जरप्रवरयोः सिंहगजेन्द्रयोः सौ-
हार्देन हृया स्थितिर्भवति । किं कृत्वा । नैसर्गिकं वैरमुत्सृज्य । तथा यस्मिन्महापुरुष-
संधौ अहिराजपन्नगभुजौ उपवीतीकृतवासुकिनागराजगरुडौ निर्व्याजमैत्रीयुजौ भवतः ॥
इति श्रीराजानकशंकरकण्ठात्मजरत्न कण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाअला-
वेकान्तरयमकस्तोत्रमेकोनत्रिंशम् ॥
 
त्रिंशः सर्गः ।
 
-
 
अथातो ग्रन्थकृन्महायम कचित्रं त्रिंशं स्तोत्रमारभमाण आह -
शारदीमिव नदीं प्रसादिनीमुच्चकैरवसरोजराजिताम् ।
स्तोतुमेष मम मूर्तिमैश्वरीमुच्चकैरवसरोऽजराजिताम् ॥ १॥
एषोऽवसरः समय उच्चकैर्महानस्ति । किं कर्तुम् । ऐश्वरीं परमेश्वरसंबन्धिनीं मूर्ति स्तो-
तुम् । किंभूताम् । अजराजितां न जरया जिता ताम्र । जरयेत्युपलक्षणम् । जन्मजरा-
Digitized by Google