This page has been fully proofread once and needs a second look.

२९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३५७
 
सुमतौ शोभना अशरणजनत्राणे मतिर्यस्य स तादृशे प्रसन्ने सति तया अहंतया नरका-

वहं दुःखं न यामि न गच्छामि ॥
 

 
प्रियां मुखे योऽधृतपञ्चमस्वरां गिरं वहन्तीममृतस्य सोदराम् ।

विशेषविश्रान्तरुचिर्बिभर्ति मां वपुष्यसौ पुष्यतु वः शिवोऽच्युतः ॥ ३१॥
 

 
न च्युतः स्खलितः कारणातीतपदादसौ शिवः श्रीशंभुर्वो युष्मान् पुष्यतु । किंभूतः ।

विशेषेणात्यर्थे विश्रान्ता रुचिः शोभा यस्मिन्स तादृशः । असौ क इत्याह —–—यः परमेशः

प्रियां मनःप्रियां 'मां' इति वर्णस्याकृतिं वपुषि शरीराधेंर्धे बिभर्ति । वर्णाकृति कीदृशोम् ।

मुखे आरम्भे धृतः पश्ञ्चमस्वरोऽकारादिगणनया पञ्चमः स्वर उकारो यया सा तादृशीम् ।

उमामित्यर्थः । उमां पार्वतीं बिभर्ति । धृतपञ्चस्वरां मां कीदृशीम् । अमृतस्य सोदरां

सदृशीं गिरं वाणीं वहन्तीम् । अथ च शिवः कल्याणदायी अच्युतो नारायणो वः पु-

ष्यतु । किंभूतः । विशेषविश्रान्तरुचिः विः पक्षी गरुडः शेषश्च नागाधीशस्तयोर्विश्रान्ता

लोना रुचिर्यस्य स तादृक् । असौ क इत्याह – प्रियामिति । यो विष्णुः प्रियां कान्तां

मां लक्ष्मीं वपुषि शरीरे बिभर्ति । किंभूताम् । धृतः पञ्चमस्वरः पञ्चमाख्यः स्वरो यया

सा तादृशीम् । कुत्र । मुखे वदने । लक्ष्मीमीं किंभूताम् । अमृतस्य सोदरां गिरं वह-

न्तीम् ॥ शब्दश्लेषः ॥
 

 
नुतिर्मयेयं भजतां हिताय ते कृतानया शर्म सतां हि तायते ।

मनस्यपि ग्लानिरपोहिता यते धृता यदेषा श्रुतिसंहितायते ॥ ३२ ॥
 

 
हे दयालो, ते तव विभोरियं नुतिः स्तुतिर्भजतां भक्तजनानां हिताय कृता । अनया

च मत्कृतया भवत्स्तुत्या हि यतः सतां साधूनां शर्म कल्याणं तायते विस्तार्यते । अ

स्माभिर्मनस्यपि चित्तेऽपि आयते वितते यते संयते वा ग्लानिरपोहिता निवारिता ।

यद्यस्मात्कारणात् एषा मत्कृतनुतिर्घृधृता मनसि कृता श्रुतिसंहितायते श्रुतिरूपा चासौ सं-

हिता तद्वदाचरति ॥
 
3
 

 
अमेयमहिमा हिमाद्रितनयानयात्तहृदयो दयोर्जिजिंतमतिः ।
 

विभुर्भवरुजं रुजन्नविकलं कलङ्करहितं हितं दिशतु वः ॥ ३३ ॥
 

 
अमेयमहिमा अपरिच्छेद्यमहिमा । तथा हिमाद्रितनयया पार्वत्या नयेनात्तं गृहीतं

हृदयं यस्य सः । तथा दयया कृपया ऊर्जिता मतिर्यस्य सः । भवरुजं संसाररोगं रु-

जन् खण्डशः कुर्वन् । 'रुजो भङ्गे' धातुः । 'अविकलं पूर्णं कलङ्करहितं निर्मलं च हितं

वो युष्मभ्यं दिशतु ददातु ॥
 

 
उदारकरुणोऽरुणोर्जितमहा महाहिवलयो लयोज्झितवपुः ।

अघौघशमनो मनोधृतमुदामुदात्तविभवो भवो भवतु वः ॥ ३४ ॥

 
उदारा महती करुणा यस्य सः । तथा अरुणस्य सूर्यस्येवोर्जितं महस्तेजो यस्य सः ।
 
Digitized by Google