This page has not been fully proofread.

२९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३५७
 
सुमतौ शोभना अशरणजनत्राणे मतिर्यस्य स तादृशे प्रसन्ने सति तया अहंतया नरका-
वहं दुःखं न यामि न गच्छामि ॥
 
प्रियां मुखे योऽधृतपञ्चमस्वरां गिरं वहन्तीममृतस्य सोदराम् ।
विशेषविश्रान्तरुचिर्बिभर्ति मां वपुष्यसौ पुष्यतु वः शिवोऽच्युतः ॥ ३१॥
 
न च्युतः स्खलितः कारणातीतपदादसौ शिवः श्रीशंभुर्वो युष्मान् पुष्यतु । किंभूतः ।
विशेषेणात्यर्थे विश्रान्ता रुचिः शोभा यस्मिन्स तादृशः । असौ क इत्याह —–—यः परमेशः
प्रियां मनःप्रियां 'मां' इति वर्णस्याकृतिं वपुषि शरीराधें बिभर्ति । वर्णाकृति कीदृशोम् ।
मुखे आरम्भे धृतः पश्चमस्वरोऽकारादिगणनया पञ्चमः स्वर उकारो यया सा तादृशीम् ।
उमामित्यर्थः । उमां पार्वतीं बिभर्ति । पञ्चस्वरां मां कीदृशीम् । अमृतस्य सोदरां
सदृशीं गिरं वाणीं वहन्तीम् । अथ च शिवः कल्याणदायी अच्युतो नारायणो वः पु-
ष्यतु । किंभूतः । विशेषविश्रान्तरुचिः विः पक्षी गरुडः शेषश्च नागाधीशस्तयोर्विश्रान्ता
लोना रुचिर्यस्य स तादृक् । असौ क इत्याह – प्रियामिति । यो विष्णुः प्रियां कान्तां
मां लक्ष्मीं वपुषि शरीरे बिभर्ति । किंभूताम् । धृतः पञ्चमस्वरः पञ्चमाख्यः स्वरो यया
सा तादृशीम् । कुत्र । मुखे वदने । लक्ष्मी किंभूताम् । अमृतस्य सोदरां गिरं वह-
न्तीम् ॥ शब्दश्लेषः ॥
 
नुतिर्मयेयं भजतां हिताय ते कृतानया शर्म सतां हि तायते ।
मनस्यपि ग्लानिरपोहिता यते धृता यदेषा श्रुतिसंहितायते ॥ ३२ ॥
 
हे दयालो, ते तव विभोरियं नुतिः स्तुतिर्भजतां भक्तजनानां हिताय कृता । अनया
च मत्कृतया भवत्स्तुत्या हि यतः सतां साधूनां शर्म कल्याणं तायते विस्तार्यते । अ
स्माभिर्मनस्यपि चित्तेऽपि आयते वितते यते संयते वा ग्लानिरपोहिता निवारिता ।
यद्यस्मात्कारणात् एषा मत्कृतनुतिर्घृता मनसि कृता श्रुतिसंहितायते श्रुतिरूपा चासौ सं-
हिता तद्वदाचरति ॥
 
3
 
अमेयमहिमा हिमाद्रितनयानयात्तहृदयो दयोर्जितमतिः ।
 
विभुर्भवरुजं रुजन्नविकलं कलङ्करहितं हितं दिशतु वः ॥ ३३ ॥
 
अमेयमहिमा अपरिच्छेद्यमहिमा । तथा हिमाद्रितनयया पार्वत्या नयेनात्तं गृहीतं
हृदयं यस्य सः । तथा दयया कृपया ऊर्जिता मतिर्यस्य सः । भवरुजं संसाररोगं रु-
जन् खण्डशः कुर्वन् । 'रुजो भङ्गे' धातुः । 'अविकलं पूर्ण कलङ्करहितं निर्मलं च हितं
वो युष्मभ्यं दिशतु ददातु ॥
 
उदारकरुणोऽरुणोर्जितमहा महाहिवलयो लयोज्झितवपुः ।
अघौघशमनो मनोधृतमुदामुदात्तविभवो भवो भवतु वः ॥ ३४ ॥
उदारा महती करुणा यस्य सः । तथा अरुणस्य सूर्यस्येवोजितं महस्तेजो यस्य सः ।
 
Digitized by Google