This page has been fully proofread once and needs a second look.

३५६
 
काव्यमाला ।
 
रिशं श्रीशंभुं प्रणमतराम तिशयेन प्रणम । तं कमित्याह – परशुचितेति । यः श्रीशिव-

भट्टारकः परमत्यर्थेथं शुचितया पावित्र्येणोर्जिता आकृतिर्यस्य स तादृशो यः शंभुर्द्विजप-

तिशेखरतां चन्द्रशेखरतां बिभर्ति । अथ च हे भक्तजनाः, यूयं तमच्युतं विष्णुं रामतनुं

भार्गवराममूर्तितिं प्रणमत । किंभूतम् । गिरि वाचि शंसतां स्तुवतां हितम् । तं कमि-

त्याह – परश्वित्यादि । यो भार्गवरामः परशुना आयुधविशेषेण चिता ऊर्जिता आकृ

तिर्यस्य स तादृशो द्विजपतिशेखरतां ब्राह्मणमौलित्वं बिभर्ति ।
 

 
यमं ययारब्धमहामहानयः क्षयं दृशा यस्य स शर्महानयः ।
 

ददासि चेत्तामुदितो महानयः क्षताश्च विघ्नाः कृतकामहानयः ॥ २८ ॥
 

 
पूर्वार्धे आरब्धमहामह अनयः इति पदच्छेदः । शर्महा अनयः इति च । हे आर-

ब्धमहामह । आरब्धो महामहो महोत्सवो भवभयोद्धरणाद्भक्तजनस्य येन तत्संबो-

धनम् । हे विभो, यस्यान्तकस्य स प्रसिद्धोऽनयः कुत्सितो नयो जगद्धस्मरत्वरूपः श-
मे

र्म
हा कल्याणहा भवति तमपि यमं कीनाशं यया दृशा त्वं क्षयं दाहरूपमनयः नीतवा-

नसि तां दृशं चेद्यदि कृपापात्राय मादृशाय ददासि तर्हि महानयः शुभावही विधिरु-

दित उत्पन्नः । विघ्नाश्च सर्वे जन्मजरामरणरूपाः क्षताः । किंभूता विघ्नाः । कृतकामहा-

नयः कृता कामस्याभिलाषस्य हानिर्यैस्ते तादृशाः ॥
 

 
अनलसंभृतकान्ति दधत्सदारुचिरमारचितास्पदमीक्षणम् ।
 

सुमतये विधुरोपकृतिप्रियो भवतु वो भगवान्भगवानिव ॥ २९ ॥
 

 
भगवान् श्रीशंभुर्वो युष्माकं सुमतये श्रीशिवभक्त्यासक्तिदृढबुद्ध्यै भवतु । क इव ।

भगवान्बुद्ध इव । उभावपि विशेषणैर्विशिष्टि-

भगवान् श्रीशंभुः किंभूतः । सदा अन-

लेनाग्निना संभृता कान्तिर्यस्य तत् तथा रुचिरो रम्यो यो मार: कामस्तस्य चिता

तस्या आस्पदं स्थानमीक्षणं नेत्रं दधत् । पुनः किंभूतः । विधुर्विष्णुः स एव रोपः शर-

स्तस्य कृतिः करणं प्रिया यस्य स तादृक् । त्रिपुरदाहे विष्णुः शरीकृतो भगवता शिवे-

नेति प्रसिद्धिः । 'भगवान्मारजिल्लोकजिज्जिनः' इत्यमरः । भगवान्बुद्धोऽपि किंभूतः । अ
-
नलसमालस्यरहितं सदा ध्यानपरत्वात् । तथा भृतकान्ति धृतशोभम् । तथा सदा स

वेदा रुचिः शोभा यस्याः सा तादृशी चासौ रमा लक्ष्मीस्तया रचितमास्पदं स्थानं यस्य

तत्तादृशमीक्षणं दधत् । तथा विधुरेषु भीतेषूपकृतिः प्रिया यस्य स तादृक् ॥
 

 
न जातु तज्ज्ञाः कृतिनोऽवहन्त यामधोगतौ कारणमेव हन्त या ।

त्वपि [^१]प्रसन्ने सुमतावहंतया न यामि दुःखं नरकावहं तया ॥ ३० ॥

 
हे विभो, तज्ज्ञाः परमार्थज्ञाः कृतिनो विपश्चितो यामहंतामहंकृतितिं न जातु अवहन्त ।

तथा । हन्त कष्टे । या अहंता अधोगतौ कारणं हेतुरेव भवति । हे दयालो, त्वयि विभौ
 

 
[^
]. 'प्रपन्ने' ख.
 
Digitized by Google