This page has been fully proofread once and needs a second look.

२९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
अभीष्टदायी यमधामहोदयाद्ध्वमनिर्यया श्वेतनृपे महोदया ।
 
वृ

धृ
ति दिशन्ती नमतामहो दया क्व सा तवास्मास्वधुना महोदया ॥ २४ ॥

 
हे विभो, अहो आश्चर्ये । नमतां भक्तिनम्राणां धृतिं दिशन्ती वितरन्ती । तथा म

होदया महानुदयो यस्याः सा तादृशी तव विभोर्दया अस्मासु वराकेष्वधुना' क्व भन्
-
वति । सा का इत्याह – अभीष्टदायीत्यादि । अत्र यमधामहा उदयात् इति पदच्छेदः ।

यया तव दयया श्वेतनृपे श्वेताख्ये राजनि यमधामहा यमस्य धाम तेजो इन्तीति यम-

धामहा ध्वनिः 'मा भैषीः' इति ध्वनिरुदयात् उत्पन्नः । किंभूतः । अभीष्टं कृतान्तभया-

त्राणं ददातीत्यमीष्टदायी। दयया कथंभूतया । महोदया महस्तेजो ददातीति म
-
होदा तया ॥
 

 
अयमहं पुरुषोत्तममच्युतं बलिजितं कृतसत्यपरिग्रहम् ।

अचलितश्रियमाश्रितनन्दकं घृधृतसुदर्शनमीश्वरमाश्रये ॥ २५ ॥
 

 
हे विभो, अयं कृपापात्रमहमीश्वरं परमेश्वरमाश्रये भजामि । किंभूतम् । पुरुषोत्तमं

पुरुषाणां प्रकृतेः परेषामात्मनामुत्तमं परमात्मानम् । तथा अच्युतं न च्युतः स्खलितः

स्वातन्त्र्यपार मैश्वर्यादेस्तम् । तथा बलिनस्त्रिपुरान्धकादीन् जयति तादृक् तम् । तथा

कृतः सत्यस्य वृषस्य परिग्रहो येन तम् । न चलिता श्रीः शोभा यस्मात्स तादृशम् ।

तथा आश्रितान्भक्तान्नन्दयतीत्याश्रितनन्दकस्तम् । तथा धृतं शोभनं दर्शनं येन स ता-

दृशम् । अथ च ईश्वरं प्रभुं पुरुषोत्तमं पुराणपुरुषमच्युतं विष्णुमाश्रये । किंभूतम् । बलिं

दानवं जितवांस्तादृशस्तम् । तथा आश्रितो नन्दकः खड्ड़ोगो येन स तादृशस्तम् । तथा

धृतः सुदर्शनश्चक्र
विशेषो येन स तम् ॥
 

 
वितन्वती भक्तिमतां समानतां बिभर्ति या कल्पलतासमानताम् ।
 

कथं दधन्मूर्तिमिमां समानतां तव स्तुतिं वच्मि शतं समा न ताम् २६
 
३५५
 

 
हे विभो, अहं तव तां स्तुतिं शतं समा वर्षशतपर्यन्तं कथं न वच्मि । अपि तु व

च्म्येव । अहं किंभूतः । सम्यगानतां प्रह्लारामिमां मूर्तितिं दधत् । तां स्तुतिं कामित्या-

या तव स्तुतिर्भक्तिमतां भक्तजनानां कल्पलतासमानतां कल्पवल्लीसादृश्यं निजाभिल-

षितदानाद्विभर्ति । किंभूता । भक्तिमतां समानतां सह मान पूजया वर्तन्ते समानान्प्र-

स्तेषां भावस्तत्ता तां वितन्वती ॥
 

भक्तजनं प्रति कवेरुक्ति:-

 
इह परशुचितोर्जिताकृतिर्द्विजपतिशेखरतां बिभर्ति यः ।
 
-
 

त्रिजगति गिरिशं सतां हितं प्रणमतरामतनुं तमच्युतम् ॥ २७ ॥
 

 
हे भक्तजन, इह जगति त्वं त्रिजगति त्रिभुवने सतां साधूनां हितम् । अतनुं नैव

मूर्तिधरम् । अणोरणीयांसमित्यर्थः । अच्युतः स्वातन्त्र्यैश्वर्या देरस्खलितस्तादृशं तं गि-
Digitized by Google