2023-02-23 21:27:58 by ambuda-bot
This page has not been fully proofread.
२९ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
अभीष्टदायी यमधामहोदयामनिर्यया श्वेतनृपे महोदया ।
वृति दिशन्ती नमतामहो दया क्व सा तवास्मास्वधुना महोदया ॥ २४ ॥
हे विभो, अहो आश्चर्ये । नमतां भक्तिनम्राणां धृतिं दिशन्ती वितरन्ती । तथा म
होदया महानुदयो यस्याः सा तादृशी तव विभोर्दया अस्मासु वराकेष्वधुना' क्व भन्
वति । सा का इत्याह – अभीष्टदायीत्यादि । अत्र यमधामहा उदयात् इति पदच्छेदः ।
यया तव दयया श्वेतनृपे श्वेताख्ये राजनि यमधामहा यमस्य धाम तेजो इन्तीति यम-
धामहा ध्वनिः 'मा भैषीः' इति ध्वनिरुदयात् उत्पन्नः । किंभूतः । अभीष्टं कृतान्तभया-
त्राणं ददातीत्यमीष्टदायी। दयया कथंभूतया । महोदया महस्तेजो ददातीति म
होदा तया ॥
अयमहं पुरुषोत्तममच्युतं बलिजितं कृतसत्यपरिग्रहम् ।
अचलितश्रियमाश्रितनन्दकं घृतसुदर्शनमीश्वरमाश्रये ॥ २५ ॥
हे विभो, अयं कृपापात्रमहमीश्वरं परमेश्वरमाश्रये भजामि । किंभूतम् । पुरुषोत्तमं
पुरुषाणां प्रकृतेः परेषामात्मनामुत्तमं परमात्मानम् । तथा अच्युतं न च्युतः स्खलितः
स्वातन्त्र्यपार मैश्वर्यादेस्तम् । तथा बलिनस्त्रिपुरान्धकादीन् जयति तादृक् तम् । तथा
कृतः सत्यस्य वृषस्य परिग्रहो येन तम् । न चलिता श्रीः शोभा यस्मात्स तादृशम् ।
तथा आश्रितान्भक्तान्नन्दयतीत्याश्रितनन्दकस्तम् । तथा धृतं शोभनं दर्शनं येन स ता-
दृशम् । अथ च ईश्वरं प्रभुं पुरुषोत्तमं पुराणपुरुषमच्युतं विष्णुमाश्रये । किंभूतम् । बलिं
दानवं जितवांस्तादृशस्तम् । तथा आश्रितो नन्दकः खड्ड़ो येन स तादृशस्तम् । तथा
धृतः सुदर्शनश्चक्र
विशेषो येन स तम् ॥
वितन्वती भक्तिमतां समानतां बिभर्ति या कल्पलतासमानताम् ।
कथं दधन्मूर्तिमिमां समानतां तव स्तुतिं वच्मि शतं समा न ताम् २६
३५५
हे विभो, अहं तव तां स्तुतिं शतं समा वर्षशतपर्यन्तं कथं न वच्मि । अपि तु व
च्म्येव । अहं किंभूतः । सम्यगानतां प्रह्लामिमां मूर्ति दधत् । तां स्तुतिं कामित्याइ-
या तव स्तुतिर्भक्तिमतां भक्तजनानां कल्पलतासमानतां कल्पवल्लीसादृश्यं निजाभिल-
षितदानाद्विभति । किंभूता । भक्तिमतां समानतां सह मान पूजया वर्तन्ते समाना-
स्तेषां भावस्तत्ता तां वितन्वती ॥
भक्तजनं प्रति कवेरुक्ति:-
इह परशुचितोर्जिताकृतिद्विजपतिशेखरतां बिभर्ति यः ।
-
त्रिजगति गिरिशं सतां हितं प्रणमतरामतनुं तमच्युतम् ॥ २७ ॥
हे भक्तजन, इह जगति त्वं त्रिजगति त्रिभुवने सतां साधूनां हितम् । अतनुं नैव
मूर्तिधरम् । अणोरणीयांसमित्यर्थः । अच्युतः स्वातन्त्र्यैश्वर्या देरस्खलितस्तादृशं तं गि-
Digitized by Google