2023-10-06 08:18:29 by jayusudindra
This page has been fully proofread once and needs a second look.
जयजयप्रदः तस्मै ते वराय उत्कृष्टाय श
कलङ्का वा
श्वराय नमोऽस्तु । तथा जगतः अगदं विशल्यीकरणं तत्र प्रगल्भो विभवो यस्य स ता
शाय भवाय शंभवे नमोस्तु । प्रवरा उत्कृष्टा वरा देवादभीप्सितानि तैः प्रकाशितं निः-
श्रेयसं शिवं येन तस्मै शिवाय निःश्रेयसप्रदाय ते तुभ्यं नमोऽस्तु । इति शिवमोम्
इति
श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया स्तुतिकुसुमाञ्जलिलघुपञ्चिकया
समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ नमस्कारस्तोत्रं द्वितीयं स्तोत्रम् ।
तृतीयं स्तोत्रम् ।
अथात आशीर्वादस्तोत्रं तृतीयमारभमाण आह-
नित्यं निरावृति निजानुभवैकमान -
मानन्दधाम जगदङ्कुरबीजमेकम् ।
दिग्देशकालकलनादिसमस्तहस्त-
मर्दासहं दिशतु शर्म महन्महो नः ॥ १ ॥
नित्यमिति । तन्महन्महः परमं ज्योतिर्नोऽस्मभ्यं कल्याणं दिशतु ददातु । किंभूतम् ।
नित्यै
नित्यं त्रिष्वतीतवर्तमानभविष्यद्रूपेषु सत्तारूपेण सनातनम् । निर्गता आवृतिरविद्यात्म-
कमायावरणं यस्मात् । तदतीतमित्यर्थः । तथा निजोऽनुभव एवैकं मानं प्रमाणं सा-
क्षिभूतं यस्य तत् । तथा आनन्दस्य विगलितवेद्यान्तरपरमानन्दस्य धाम स्थानम् ।
तथा जगन्ति अधः काला
नानि तान्येवाङ्कुरास्तेषां बीजं मूलकारणम् । तथा दिग्देशेति । दिशः पूर्वाद्या दश ।
देशाः स्थानानि । कालोऽतीतवर्तमानभविष्यद्रूपः । तैर्या कल
परिच्छेद इति यावत् । तदादीनि यानि वस्तूनि । आदिशब्
तान्येव समस्ता ये हस्तमर्दा हस्तसंवाहनानि तान्न सहत इति तादृशम् । अनन्तत्वा-
त्सर्वत्र दिशि काले च तत्सनातनं परं ज्योतिश्चक्रास्त्येवेत्यर्थः । परमेश्वरस्य नित्यं सर्वत्र
च स्थितत्वाद्दिक्कालादिभिर
·
न्नो भवति स एव हस्त
च्छेद्यत्वादिति भावः ॥
व्योम्नीव नीरदभरः सरसीव वीचि
व्यूहः सहस्
Digitized by Google