This page has not been fully proofread.

काव्यमाला ।
 
विजयेति । किरातार्जुनीयवृत्तान्ते विजयस्यार्जुनस्य जयं प्रददाति वरप्रदानात् वि.
जयजयप्रदः तस्मै ते वराय उत्कृष्टाय शवराय किरातरूपाय नमोऽस्तु तथा सकला ये
कलङ्का वाढ्यनः कायोपार्जितपापसंघातास्तेषां यः संकरस्तं हरतीति तादृशाय हराय महे-
श्वराय नमोऽस्तु । तथा जगतः अगदं विशल्यीकरणं तत्र प्रगल्भो विभवो यस्य स ताह-
शाय भवाय शंभवे नमोस्तु । प्रवरा उत्कृष्टा वरा देवादभीप्सितानि तैः प्रकाशितं निः-
श्रेयसं शिवं येन तस्मै शिवाय निःश्रेयसप्रदाय ते तुभ्यं नमोऽस्तु । इति शिवमोम्
 
इति
 
श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया स्तुतिकुसुमाञ्जलिलघुपचिकया
समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ नमस्कारस्तोत्रं द्वितीयं स्तोत्रम् ।
 
तृतीयं स्तोत्रम् ।
 
अथात आशीर्वादस्तोत्रं तृतीयमारभमाण आह-
नित्यं निरावृति निजानुभवैकमान -
मानन्दधाम जगदङ्कुरबीजमेकम् ।
दिग्देशकालकलनादिसमस्तहस्त-
मर्दासहं दिशतु शर्म महन्महो नः ॥ १ ॥
 
नित्यमिति । तन्महन्महः परमं ज्योतिर्नोऽस्मभ्यं कल्याणं दिशतु ददातु । किंभूतम् ।
नित्यै त्रिष्वतीतवर्तमानभविष्यद्रूपेषु सत्तारूपेण सनातनम् । निर्गता आवृतिरविद्यात्म-
कमायावरणं यस्मात् । तदतीतमित्यर्थः । तथा निजोऽनुभव एवैकं मानं प्रमाणं सा-
क्षिभूतं यस्य तत् । तथा आनन्दस्य विगलितवेद्यान्तरपरमानन्दस्य धाम स्थानम् ।
तथा जगन्ति अधः कालाभिरुद्रभुवनादारभ्य शिवभुवनान्तं सचतुर्विंशतिशतष्द्वयभुव-
नानि तान्येवाकुरास्तेषां बीजं मूलकारणम् । तथा दिग्देशेति । दिशः पूर्वाया दश ।
देशाः स्थानानि । कालोऽतीतवर्तमानभविष्यद्रूपः । तैर्या कलमा नियमेन बन्धः ।
परिच्छेद इति यावत् । तदादीनि यानि वस्तूनि । आदिशब्दनाणुमहद्दीर्घादिपरिग्रहः ।
तान्येव समस्ता ये हस्तमर्दा हस्तसंवाहनानि तान्न सहत इति तादृशम् । अनन्तत्वा-
त्सर्वत्र दिशि काले च तत्सनातनं परं ज्योतिश्चक्रास्त्येवेत्यर्थः । परमेश्वरस्य नित्यं सर्वत्र
च स्थितत्वाद्दिक्कालादिभिरप्रास्यत्वाद्धस्तमर्दासहत्वम् । यो हि देशकालादिना परिच्छि-
· नो भवति स एव हस्तप्रायतां सहते । यथा घटादिः । परमेश्वरस्तु न तथा । अपरि-
च्छेद्यत्वादिति भावः ॥
 
व्योम्नीव नीरदभरः सरसीव वीचि
 
व्यूहः सहस्त्रमहसीव सुधांशुधाम ।
 
Digitized by Google