This page has not been fully proofread.

३५४
 
काव्यमाला ।
 
न वितन्वत इति । तथा अष्टमूर्तेरप्यनष्टमूर्तितां दधत इति विरोधाभासोऽलंकारः । त
त्रापि निधाय चक्षुः कामं दहत इत्युच्यमाने मनोभवं दहत इति प्रक्रमभङ्गेऽपि भक्ति-
विषये न दोषः ॥
 
समाश्रितस्त्वां करुणापराजयः क्वचिन्न तस्यास्ति रणे पराजयः ।
 
परे तमारब्धपरस्पराजयः श्रयन्ति नाथं धृतचापराजयः ॥ २० ॥
 
हे अज अनादे, हे करुणापर करुणामय शंभो, यो जनस्त्वां समाश्रितः शरणं गत-
स्तस्य धन्यस्य रणे सङ्ग्रामे पराजयः क्वचिन्नास्ति । तं त्वत्समाश्रितं परेऽन्ये जनाः
शत्रवो वा नाथं श्रयन्ति । किंभूताः । आरब्धा परस्परमाजिर्युद्धं यैस्ते । तथा वृता चा
पानां धनुषां राजिर्यैस्तादृशाः ॥
 
ध्रुवं स कृष्णस्तमधश्चकार यश्चिराय पक्षद्वयकल्पितस्थितिम् ।
द्विजाधिराजं विनतार्तिहारिणं बिभर्ति यो मूर्ध्नि स तु त्वमीश्वरः ॥ २१॥
 
ध्रुवं निश्चये । स कृष्णो मलिन एव । अथ च स कृष्णो विष्णुः । चिराय चिरमपि
पक्षद्वये उभयोः पतत्रयोरपि कल्पिता स्थितिर्यस्य स तादृशम् । तथा विनतायाः स्वमा
तुरार्तिहारिणं तं द्विजाधिराजं गरुडं योऽधश्चकार वाहनीकृतवान् । अथ च पूर्वोत्तरप
क्षद्वयेऽपि कृतस्थितिं द्विजाधिराजं ब्राह्मणश्रेष्ठं तथा विनतानामार्तिहारिणं योऽधः क-
रोति स कृष्णो मलिन इत्यर्थः । तु पक्षान्तरे । स त्वमीश्वरः परमेश्वरो भवसि । स कः ।
यस्त्वं विभुश्विराय बहुकालं पक्षद्वयेऽपि शुक्लकृष्णरूपपक्षद्ववेऽपि कृतस्थितिम् विनतानां
प्रणतानामार्तिहारिणं द्विजाधिराजं नक्षत्रेशं उभयपक्षेऽपि कृतस्थितिं ब्राह्मणाधिपतिं च
यो मूर्ध्नि शिरसि बिभर्ति स तु त्वमेवेश्वरो भवसीत्यर्थः ॥
 
विभुं विरिश्चोऽपि न वेद नाम यं नतस्य दुःखं घनवेदनामयम् ।
निहन्ति तस्यापि भवेदनामयं शुचं भजेन्नाप्यनिवेदनामयम् ॥ २२ ॥
समुद्रजालिङ्गितकण्ठमण्डलं सदैव सत्याहितसक्तिमच्युतम् ।
अनन्यगा यस्य नवोक्तिमौक्तिकैरलंकरोति प्रचुरा सरस्वती ॥ २३ ॥
(युग्मम्)
 
नाम निश्चये । यं विभुं परमेश्वरं विरिश्वो ब्रह्मापि न वेद । घनवेदनामयं गुरुव्य-
थारूपं दुःखं य एव विभुर्नतस्य भक्तिनम्रस्य निहन्ति । तस्यापि भक्तिनम्रस्य अना-
मयं निःश्रेयसं कैवल्यरूपं भवेत् । तथा अयं भक्तिनम्रो जनः अनिवेदनामनिर्वाच्यां
शुचं पुनरावृत्तिरूपां नापि भजेत् । श्रीशिवसायुज्यं प्राप्नुयादित्यर्थः ॥......
...........॥ युग्मम् ॥
 
१. अयं श्लोकः क पुस्तके नास्ति व्याख्याप्यस्य नास्त्येव. 'युग्मम्' इत्यापि नास्ति.
 
Digitized by Google