2023-10-23 09:30:00 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
सरः श्रिया किं समरालवालया धृतेशभक्तिर्
अत्र चतुर्थचरणे हे अमर निर्विनाश इत्यामन्त्रणम् । सृमराणि विपुलान्यालवालानि
यस्याः सा तया आम्रवनी रसालवनी तथा आम्रवन्या किं भवति । न किंचित्प्रयोज-
नम् । अस्या अपि नीरसत्वादित्यर्थः । तथा अरालाः कुटिला वालाः केशा यस्या: सा
तया प्रियाकबर्या प्रेयसीकेशवेषेणापि किं भवति । सापि न प्रायशो मनोहारिणीत्यर्थः ।
तथा सह मरालबालै
त्याह – हि यतो मया ईशभक्तिः परमेश्वरभक्तिर्
लया अक्षया । सैव परमानन्ददायिनीत्यर्थः ॥
३५३
कविः श्रीशिवभक्तिपरमामृतरसातितृप्तः स्वात्मानं विनोदयति
कदानवद्यामतिनिर्मलामहं महानदीनां सलिलैः प्रसादिभिः ।
वहामि हंसैरुपशोभिताम्बरां प्रभुप्रसादाच्छरदं यथा तनुम् ॥ १७ ॥
यथाशब्द इवार्थे । अहं कदा प्रभोः परमेश्वरस्य प्रसादाच्छरदमिव शरदृतुमिव तनुं
स्वां कदा वहामि । कीदृशीम् । अनवद्यां निर्दोषाम् । तथा अतिशयेन विगताणवमायी-
यकार्मरूपत्रिविधमलाम् । तथा प्रसादिभिरतिनिर्मलैर्महानदीनां मन्दाकिनीप्रभृतीनां
सलिलैरतिनिर्मलाम् । तथा च हंसै
शरदपि अनवद्या निर्दोषा तथा प्रसन्नैर्महानदीजलैरतिनिर्मला इंसैर्मरालैरप्युपशो-
भितगगना भवति ॥
प्रभुं प्रपत्तुं स्थलमेहि मालयं महीधरं मानस वा हिमालयम् ।
रसातले वौपयिकाहिमालयं श्रयन्तमन्वेषय याहि मा लयम् ॥ १८ ॥
हे मानस चेतः, त्वं प्रभुं परमेश्वरं प्रपत्तुं सेवितुं मालयं मलयस्य मलयाख्यपर्वतस्येदं
मालयं स्थलं स्थानमेहि । वाशब्दो विकल्पे । अथवा हिमालयं महीधरमद्रिराजमेहि ।
हे मानस, त्वं रसातले पाताले वा औपयिका उपादेया अहयो वासुक्यादयो यस्य स
तादृशमालयं श्रयन्तं प्रभुं श्रीहाटकेश्वरमन्वेषय मार्गय । तमेव शरणं याहीत्यर्थः । त्वं
लयं क्षयं वृथायासेन मा याहि मा गच्छ ॥
निधाय चक्षुर्दहतो मनोभवं न कामहा
अनष्टमूर्तेर्दधतोऽष्टमूर्तितां जयन्ति शंभोर्विविधा विभूतयः ॥ १९ ॥
चक्षुस्तृतीयं निधाय मनोभवं कामं दहतः । तथा कामस्याभिलाषस्य हा
र्षेण वितन्वतः । कया । दृशा दृष्
अनष्टमूर्तितामविनाशिमूर्तितां दधतः शंभोः श्रीशिवभट्टारकस्य विविधा विचित्रा विभू-
तयो जयन्ति सर्वोत्कृष्टा भवन्ति । अत्र च दृशा कामहा
४५
Digitized by Google