This page has not been fully proofread.

२९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
किमाम्रवन्या समरालवालया प्रियाकबर्या किमरालवालया ।
सरः श्रिया किं समरालवालया धृतेशभक्तिर्हामरालवालया ॥ १६ ॥
अत्र चतुर्थचरणे हे अमर निर्विनाश इत्यामन्त्रणम् । सृमराणि विपुलान्यालवालानि
यस्याः सा तया आम्रवनी रसालवनी तथा आम्रवन्या किं भवति । न किंचित्प्रयोज-
नम् । अस्या अपि नीरसत्वादित्यर्थः । तथा अरालाः कुटिला वालाः केशा यस्या: सा
तया प्रियाकबर्या प्रेयसीकेशवेषेणापि किं भवति । सापि न प्रायशो मनोहारिणीत्यर्थः ।
तथा सह मरालबालैईसशावकैर्वर्तते या सा तया सरः श्रियापि किं भवति । कुतस्तदि-
त्याह – हि यतो मया ईशभक्तिः परमेश्वरभक्तिर्घृता । किंभूता । अलवा अनल्पा । अ-
लया अक्षया । सैव परमानन्ददायिनीत्यर्थः ॥
 
३५३
 
कविः श्रीशिवभक्तिपरमामृतरसातितृप्तः स्वात्मानं विनोदयति
-
कदानवद्यामतिनिर्मलामहं महानदीनां सलिलैः प्रसादिभिः ।
 
वहामि हंसैरुपशोभिताम्बरां प्रभुप्रसादाच्छरदं यथा तनुम् ॥ १७ ॥
 
यथाशब्द इवार्थे । अहं कदा प्रभोः परमेश्वरस्य प्रसादाच्छरदमिव शरतुमिव तनुं
स्वां कदा वहामि । कीदृशीम् । अनवद्यां निर्दोषाम् । तथा अतिशयेन विगताणवमायी-
यकार्मरूपत्रिविधमलाम् । तथा प्रसादिभिरतिनिर्मलैर्महानदीनां मन्दाकिनीप्रभृतीनां
सलिलैरतिनिर्मलाम् । तथा च हंसैईसचिहैरुपशोभितमम्बरं वस्त्रं यस्याः सा तादृशीम् ।
शरदपि अनवद्या निर्दोषा तथा प्रसन्नैर्महानदीजलैरतिनिर्मला इंसैर्मरालैरप्युपशो-
भितगगना भवति ॥
 
प्रभुं प्रपत्तुं स्थलमेहि मालयं महीधरं मानस वा हिमालयम् ।
रसातले वौपयिकाहिमालयं श्रयन्तमन्वेषय याहि मा लयम् ॥ १८ ॥
 
हे मानस चेतः, त्वं प्रभुं परमेश्वरं प्रपत्तुं सेवितुं मालयं मलयस्य मलयाख्यपर्वतस्येदं
मालयं स्थलं स्थानमेहि । वाशब्दो विकल्पे । अथवा हिमालयं महीधरमद्रिराजमेहि ।
हे मानस, त्वं रसातले पाताले वा औपयिका उपादेया अहयो वासुक्यादयो यस्य स
तादृशमालयं श्रयन्तं प्रभुं श्रीहाटकेश्वरमन्वेषय मार्गय । तमेव शरणं याहीत्यर्थः । त्वं
लयं क्षयं वृथायासेन मा याहि मा गच्छ ॥
 
निधाय चक्षुर्दहतो मनोभवं न कामहानि प्रवितन्वतो दृशा ।
अनष्टमूर्तेर्दधतोऽष्टमूर्तितां जयन्ति शंभोर्विविधा विभूतयः ॥ १९ ॥
 
चक्षुस्तृतीयं निधाय मनोभवं कामं दहतः । तथा कामस्याभिलाषस्य हानिँ न प्रक-
र्षेण वितन्वतः । कया । दृशा दृष्टया । तथा अष्टौ मूर्तयः क्षित्याद्या यस्य स तादृशस्यापि
अनष्टमूर्तितामविनाशिमूर्तितां दधतः शंभोः श्रीशिवभट्टारकस्य विविधा विचित्रा विभू-
तयो जयन्ति सर्वोत्कृष्टा भवन्ति । अत्र च दृशा कामहानि वितन्वतोऽपि कामहानि
 
४५
 
Digitized by Google